“विकेट-इति सुकरं न आसीत्, अतः अन्तपर्यन्तं स्थिरं स्थित्वा अवस्थानम् आवश्यकम् आसीत्” — ईशान-किशनः
चेन्नईनगरम्, १९ मे-मासः (हि. स.)। इण्डियन-प्रिमियर-लीग (आईपीएल) २०२६ मध्ये सनराइजर्स-हैदराबाद (एसआरएच)-पक्षस्य बल्लेबाजः ईशान-किशनः चेन्नई-सुपर-किंग्स (सीएसके) विरुद्धं सोमवासरे रात्रौ उत्कृष्टां बल्लेबाजीं कृत्वा पक्षस्य महत्त्वपूर्णं विजयं प्राप्
शॉट खेलते ईशान किशन


चेन्नईनगरम्, १९ मे-मासः (हि. स.)। इण्डियन-प्रिमियर-लीग (आईपीएल) २०२६ मध्ये सनराइजर्स-हैदराबाद (एसआरएच)-पक्षस्य बल्लेबाजः ईशान-किशनः चेन्नई-सुपर-किंग्स (सीएसके) विरुद्धं सोमवासरे रात्रौ उत्कृष्टां बल्लेबाजीं कृत्वा पक्षस्य महत्त्वपूर्णं विजयं प्राप्तवान्। चेन्नई-नगरस्य समस्यापूर्णायां भूमौ सः ४७ कन्दूकानां मध्ये ७० धावनांकान् कृत्वा स्पर्धान्तरं अवदत् यत् विकेट् सुकरं न आसीत्, अतः अन्तपर्यन्तं स्थित्वा खेलितुं तस्य प्रयासः आसीत्।

ईशान-किशनः अवदत् यत् विकेट-कीपिङ्ग कुर्वन् एव तस्य अनुमानं जातम् यत् १८० धावनांक-लक्ष्यस्य प्राप्तिः सुकरा न भविष्यति।

सः अवदत्—

“यदा अहं विकेट-कीपिङ्ग इति कुर्वन् आसम्, तदा एव मया अनुभूतम् यत् एषा विकेट-क्रीडा केनापि प्रकारेण सुकरं नास्ति। विशेषतः यदा स्पिनर-क्रीडका: कन्दूकं क्षिपन्ति स्म तथा शनै: कन्दूकानि प्रभावात्मकानि आसन्। मया ज्ञातं यत् एतस्य लक्ष्यस्य अनुसरणं कठिनं भविष्यति। अतः तृतीय-क्रमस्य बल्लेबाजत्वेन मम उत्तरदायित्वम् आसीत् यत् अहं अन्तपर्यन्तं क्रीडामि तथा स्पर्धां समापयितुं प्रयतामि।”

ईशानः तृतीय-ओवरतः एव बल्लेबाजीं कर्तुं प्रविष्टः तथा प्रायः अन्तपर्यन्तं क्रीज-स्थाने स्थितः। यदा हैदराबाद-पक्षस्य विजयाय केवलं ६धावनांका: अवशिष्टाः आसन्, तदा सः आउट् अभवत्। तस्य एष: पर्याय: पक्ष-विजयस्य आधारं निर्मितवान्।

सः अपि अवदत्—

“एष: केवलं आत्मविश्वासस्य विषयः आसीत्। कदाचित् परिस्थितयः कठिनाः भवन्ति, किन्तु स्वस्मिन् संशयः न करणीयः। अहं केवलं विषयान् सरलान् कर्तुं तथा यथाशक्यं अधिकान् ओवरान् क्रीडितुं प्रयतितवान्।”

ईशानेन उक्तं यत् वामहस्त-बल्लेबाजित्वात् कन्दूकक्षेपकाणां कृते निरन्तरं सम्यक् क्षेत्रे कन्दूकक्षेपणं कर्तुं कठिनं भवति।

क्लासेन-सह सहभागिता

ईशान-किशनस्य तथा हेनरिक-क्लासेनस्य सहभागिता स्पर्धायां: प्रवाहं परिवर्तितवती। यदा उभौ एकत्र आगतौ तदा एसआरएच-पक्षस्य धावनांक: ५६/२ आसीत् तथा धावनांक-गति: १० रन-प्रति-ओवरम् अतिक्रान्ता आसीत्।

क्लासेनः अपि स्पर्धानन्तरं पिच-भूमिं समस्यापूर्णां उक्तवान्। सः अवदत् यत् आरम्भे सः किञ्चित् क्षेपकान् निरुद्धवान्, किन्तु पश्चात् आक्रामक-खेलनं कर्तव्यम् इति निश्चयः कृतः, यत् सफलं जातम्।

क्लासेनः अपि उक्तवान् यत् चेन्नई-पिच अधः स्थित्वा कन्दूकस्य गति-ह्रासं कुर्वती आसीत्, किन्तु सा तस्य मतानुसारं चेन्नई-नगरस्य उत्तम-भूमिषु एका आसीत्।

ईशान-किशनस्य संयमपूर्णायाः उत्तरदायित्वयुक्तायाः पर्याय-बलात् सनराइजर्स-हैदराबाद-पक्ष: चिन्तायुक्तायां स्पर्धायां विजयम् अलभत।

Hindusthan Samachar / Divya Ranjan