आरजीकरप्रकरणे महत् चरणं, संदीप घोषस्य विरुद्धस्य अभियोजनस्य अनुमतिः मुख्यमंत्री शुभेंदु अधिकारी अकथयत्- “सत्यं दमयितुं न शक्यम्”
कोलकाता, 19 मईमासः (हि.स.)। आरजीकर-चिकित्सामहाविद्यालये तथा चिकित्सालये चिकित्सक-छात्रायाः कथित-दुष्कर्म-हत्याकाण्डस्य प्रकरणे राज्यसर्वकारेण चिकित्सालयस्य पूर्वप्राचार्यस्य संदीपघोषस्य विरुद्धं अभियोजनप्रक्रियायै प्रवर्तन-निदेशालयाय अनुमतिः प्रदत्
शुभेंदु अधिकारी


कोलकाता, 19 मईमासः (हि.स.)। आरजीकर-चिकित्सामहाविद्यालये तथा चिकित्सालये चिकित्सक-छात्रायाः कथित-दुष्कर्म-हत्याकाण्डस्य प्रकरणे राज्यसर्वकारेण चिकित्सालयस्य पूर्वप्राचार्यस्य संदीपघोषस्य विरुद्धं अभियोजनप्रक्रियायै प्रवर्तन-निदेशालयाय अनुमतिः प्रदत्ता। मुख्यमन्त्री शुभेन्द्वधिकारी सोमवासरस्य रात्रौ ‘एक्स्’ इत्यस्मिन् माध्यमे एतस्य सूचना प्रदाय एतत् “न्यायस्य दिशि महत्त्वपूर्णं सकारात्मकं च चरणम्” इति उक्तवान्।

मुख्यमन्त्री स्वस्य लेखे स्वास्थ्य-परिवारकल्याणविभागस्य विशेषसचिवेन निर्गतस्य आदेशस्य प्रतिमपि साझीकृतवान्। यतः संदीपघोषः सरकारीकर्मचारी अस्ति, अतः तस्य विरुद्धं वैधानिककार्यवाही आरम्भार्थं राज्यसर्वकारस्य अनुमतिः आवश्यकासीत्।

मुख्यमन्त्री अधिकारी लिखितवान् यत् आरजीकर-चिकित्सालये नव-अगस्त् २०२४ तमे दिने जाता चिकित्सक-छात्रायाः “निर्मम-हत्या-दुष्कर्म-घटना” इत्यस्य प्रकरणे तत्कालीनप्राचार्यस्य संदीपघोषस्य विरुद्धं वैधानिकप्रक्रियानुसारं प्रवर्तन-निदेशालयाय कार्यवाह्याः अनुमतिः प्रदत्ता। तेन आरोपः कृतः यत् पूर्ववर्ती तृणमूल-सर्वकारेण अस्य प्रकरणस्य अन्वेषणप्रक्रिया दीर्घकालं यावत् निरुद्धा आसीत्। मुख्यमन्त्री उक्तवान् यत् तस्य सर्वकारस्य मतम् अस्ति — “विधेः उपरि कश्चन नास्ति, सत्यं च सर्वदा दमनं कर्तुं न शक्यते।”

आदेशे उक्तम् अस्ति यत् राज्यपालस्य तथा सक्षमप्राधिकरणस्य समीपे प्रस्तुतानां प्रपत्राणां साक्ष्याणां च विस्तृतपरीक्षणानन्तरं प्रथमदृष्ट्या एतत् ज्ञातम् यत् तत्कालीनप्राचार्यस्य संदीपघोषस्य आपराधिकक्रियाकलापाः तथा कर्तव्ये प्रमादः भारतीयन्यायसंहितायाः धारा १२०बी सह पठ्यमानायाः धारा ४२० अन्तर्गतं तथा भ्रष्टाचार-निवारण-अधिनियमस्य १९८८ तमस्य वर्षस्य धारा ७ अन्तर्गतं दण्डनीय-अपराधस्य श्रेण्यां पतन्ति।

एतेन सह धनशोधन-निवारण-अधिनियमस्य २००२ तमस्य वर्षस्य अन्तर्गतं अपि प्रकरणं पञ्जीकरणयोग्यं मन्यते। अस्य आधारेण संदीपघोषस्य सह “मा तारा ट्रेडर्स्”, “ईशान कैफे”, तथा “खामा लोहा” इत्येतेषां विरुद्धं वित्तीय-अनियमिततानां आरोपेषु अन्वेषणम् आरब्धम्। सरकारी-आदेशस्य प्रतिः राज्यस्य मुख्यसचिवाय, स्वास्थ्यविभागस्य प्रमुखसचिवाय, प्रवर्तन-निदेशालयस्य सहायकनिदेशकाय, अन्येभ्यः सम्बद्धाधिकारिभ्यश्च प्रेषिता।

अन्यत्र पीडितायाः माता, या अद्यतनकाले पानीहाटी-क्षेत्रात् भाजपा-विधायिकारूपेण निर्वाचिता, मुख्यमन्त्रिणे पत्रं प्रेष्य प्रत्यक्षतया परोक्षतया च संलग्नान् अन्यान् जनानपि अन्वेषणस्य परिधौ आनयितुं मागं कृतवती। पीडितायाः मातापितरौ निरन्तरं दावा कुर्वन्तौ स्तः यत् अस्मिन् प्रकरणे केवलं दोषी घोषितः संजयरायः एव नासीत्, अपि तु अन्ये बहवः अपि अस्मिन् संलिप्ताः आसन्।

परिजनैः आरोपः कृतः यत् शवस्य शीघ्रतया अन्त्यसंस्कारं कृत्वा साक्ष्यनाशस्य प्रयासः कृतः। अस्य सम्बन्धे पानीहाटीस्य पूर्वविधायकस्य निर्मलघोषस्य, अध्यक्षस्य सोमनाथदे इत्यस्य, पड़ोसी-संजीवमुखोपाध्यायस्य च भूमिकायामपि संशयः प्रकटितः।

Hindusthan Samachar / Dheeraj Maithani