व्यसनमुक्तभारताभियानस्य ऑनलाइनशपथग्रहणे गृहीतो भागः
हमीरपुरम्, 19 मईमासः (हि.स.)। नशामुक्तभारत-अभियाने अधिकाधिकजनान् संयोजयितुं सामाजिकन्याय-अधिकारितामन्त्रालयेन ऑनलाइन-शपथायाः (ई-प्लेज्) कृते एकः वेब-सम्बन्धः क्यूआर-सङ्केतश्च प्रकाशितः। अस्मिन् वेब्-सम्बन्धे अथवा क्यूआर-सङ्केते क्लिक् कृत्वा कश्च
उपायुक्त गंधर्वा राठौड़


हमीरपुरम्, 19 मईमासः (हि.स.)।

नशामुक्तभारत-अभियाने अधिकाधिकजनान् संयोजयितुं सामाजिकन्याय-अधिकारितामन्त्रालयेन ऑनलाइन-शपथायाः (ई-प्लेज्) कृते एकः वेब-सम्बन्धः क्यूआर-सङ्केतश्च प्रकाशितः। अस्मिन् वेब्-सम्बन्धे अथवा क्यूआर-सङ्केते क्लिक् कृत्वा कश्चन अपि जनः ‘से नो टू ड्रग्स्’ इति शपथं स्वीकर्तुं शक्नोति। सः अस्याः शपथवचनस्य स्वनाम्ना ऑनलाइन-जनितं प्रमाणपत्रम् अपि अवरोहयितुं शक्नोति।

उपायुक्ता गन्धर्वाराठौडः उक्तवती यत् नशामुक्तभारत-अभियानस्य वेब्-सम्बन्धे एनएमबीए.डीओएसजेई.जीओवी.इन nmba.dosje.gov.in इत्यत्र लॉग्-इन कृत्वा अथवा क्यूआर-सङ्केतं स्कैन् कृत्वा ‘से नो टू ड्रग्स्’ इति शपथवचनं स्वीकर्तुं शक्यते तथा स्वनाम्ना ऑनलाइन-जनितं प्रमाणपत्रम् अपि अवरोढुं शक्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani