राज्यपालः पूर्व मुख्यमंत्रिणो मेजर जनरल भुवन चंद्र खंडूड़ी इत्यस्य निधने व्यक्तीकृतश्शोकः
नैनीतालम्, 19 मईमासः (हि.स.)। राज्यपालः लेफ्टिनेंट-जनरल् गुरमीतसिंहः उत्तराखण्डस्य पूर्वमुख्यमन्त्री मेजरजनरलभुवनचन्द्रखण्डूरी इत्यस्य निधनं प्रति गाढं शोकं व्यक्तवान्। राज्यपालः दिवङ्गतात्मनः शान्त्यर्थम् ईश्वरं प्रति प्रार्थनां कृत्वा शोकसन्तप्
राज्यपाल सेवा निवृत्त लेफ्टिनेंट जनरल गुरमीत सिंह।


नैनीतालम्, 19 मईमासः (हि.स.)।

राज्यपालः लेफ्टिनेंट-जनरल् गुरमीतसिंहः उत्तराखण्डस्य पूर्वमुख्यमन्त्री मेजरजनरलभुवनचन्द्रखण्डूरी इत्यस्य निधनं प्रति गाढं शोकं व्यक्तवान्। राज्यपालः दिवङ्गतात्मनः शान्त्यर्थम् ईश्वरं प्रति प्रार्थनां कृत्वा शोकसन्तप्तपरिवारजनान् प्रति संवेदनाः व्यक्तवान्।

राज्यपालः उक्तवान् यत् मेजरजनरलभुवनचन्द्रखण्डूरी इत्यस्य उत्तराखण्डस्य विकासे, सुशासने, सैनिकमूल्यानां जनजनपर्यन्तं प्रसारणे च महत्त्वपूर्णं योगदानम् आसीत्। तेन उक्तं यत् सार्वजनिकजीवने तस्य सरलता, अनुशासनम्, सेवाभावना च सदा प्रेरणास्रोतरूपेण स्थास्यन्ति तथा राज्यं तस्य योगदानं सर्वदा स्मरिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani