छत्तीसगढं प्राप्नोत् उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथो, मुख्यमंत्री सायोऽकरोत् स्वागतम्
रायपुरम् 19 मईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे बस्तरे आयोजितायां मध्यक्षेत्रीयपरिषदः षड्विंशतितमगोष्ठ्यां सहभागित्वाय आगतं उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथं छत्तीसगढस्य पावनधारायां आत्मीयतया स्वागतं अभिनन्दनं च कृ
उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ का मुख्यमंत्री साय  स्वागत करते


रायपुरम् 19 मईमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे बस्तरे आयोजितायां मध्यक्षेत्रीयपरिषदः षड्विंशतितमगोष्ठ्यां सहभागित्वाय आगतं उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथं छत्तीसगढस्य पावनधारायां आत्मीयतया स्वागतं अभिनन्दनं च कृतवान्। मुख्यमन्त्री साय तस्मै राजकीयगम्छां समर्प्य छत्तीसगढस्य पारम्परिकसंस्कृतेः अनुरूपेण सम्मानं प्रदत्तवान्।

उल्लेखनीयं यत् केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहस्य अध्यक्षतायां मध्यक्षेत्रीयपरिषदः षड्विंशतितमबैठकायाः आयोजनम् अद्य बस्तरे क्रियते। अस्यां महत्त्वपूर्णगोष्ठ्यां विभिन्नराज्यानां मध्ये समन्वयः, विकासः, प्रशासनिकविषयाश्च विषये व्यापकचर्चा भविष्यति।

अस्मिन् अवसरे मुख्यमन्त्री विष्णुदेवसाय तथा मुख्यमन्त्री योगीआदित्यनाथयोः मध्ये विभिन्नसमसामयिकविषयेषु, राज्यानां परस्परसमन्वये, क्षेत्रीयविकाससम्बद्धविषयेषु च विस्तृतविचारविमर्शः अभवत्। बैठके सुशासनम्, विकासयोजनानां प्रभावीक्रियान्वयनम्, जनहितसम्बद्धविषयाश्च विषये अपि चर्चा कृता।

---------------

Hindusthan Samachar / Dheeraj Maithani