Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 19 मईमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता पूर्वमुख्यमन्त्री च भुवनचन्द्रखण्डूडी अधुना अस्मिन् लोके नास्ति, किन्तु तस्य जीवनं राष्ट्रसेवायाः अनुशासनस्य दायित्वनिष्ठराजनीतेः च आदर्शरूपेण स्थितम्। येन सः केवलम् उत्तराखण्डे एव न, अपितु सम्पूर्णदेशस्य राजनीतिक्षेत्रे अपि विशिष्टां परिचयरेखाम् अलभत। संघर्षस्य सरलजीवनस्य सुशासनस्य च एतादृशीं विरासत् सः त्यक्तवान्, यां उत्तराखण्डः दीर्घकालपर्यन्तं स्मरिष्यति। तदीये व्यक्तित्वे कठोरानुशासनस्य अन्येषां प्रति विनम्रव्यवहारस्य च अद्भुतः संगमः आसीत्।
मेजरजनरल (सेवानिवृत्तः) भुवनचन्द्रखण्डूडी १ अक्टूबर १९३४ तमे वर्षे देहरादूने जातः। तस्य मङ्गलवासरे १९ मई २०२६ तमे वर्षे देहरादूनस्थिते मैक्स-चिकिसालये निधनम् अभवत्। सेनावेषात् आरभ्य मुख्यमन्त्रिपदपर्यन्तं तेन प्रत्येकं दायित्वं पूर्णनिष्ठया सरलतया दृढतया च निर्वाहितम्। सैनिकानुशासनं स्वच्छराजनीतिः जनहिताय समर्पणं च तं देशस्य तेषां विशिष्टनेतानां श्रेण्यां स्थापितवन्ति, येषां परिचयः पदेन न, अपितु कार्यशैल्या सिद्धान्तैश्च निर्मितः।तेन स्वजीवनस्य आरम्भः भारतीयसेनया सह कृतः। १९५४ तमे वर्षे सेनायाः कॉर्प्सऑफइञ्जिनीयर्स इत्यस्मिन् विभागे सम्मिलित्वा तेन प्रायः चत्वारि दशकानि राष्ट्रसेवा कृता। प्रारम्भिकशिक्षायाः अनन्तरं तेन अभियान्त्रिकीविषये स्नातकपदवीं डिफेन्समैनेजमेण्ट् इत्यस्मिन् विषयेषु स्नातकोत्तराध्ययनं च सम्पन्नम्।
सैनिकजीवने तेन अनेकानि महत्त्वपूर्णदायित्वानि निर्वाहितानि। १९९१ तमे वर्षे सः मेजरजनरलपदात् सेवानिवृत्तः अभवत्। त्रिषु युद्धेषु देशस्य रक्षणं कुर्वन् तेन साहसस्य अनुशासनस्य नेतृत्वस्य च परिचयः दत्तः। उत्कृष्टसेवानां कृते तस्मै अतिविशिष्टसेवामेडल् (एवीएसएम) इति सम्मानः प्रदत्तः।
सेनायाः मेजरजनरलपदात् सेवानिवृत्तेः अनन्तरं तेन भारतीयजनतापक्षे प्रवेशः कृतः तथा राजनीतिक्षेत्रे अपि स्वीयां विशिष्टपरिचयरेखां निर्मितवान्। सः गढवाल (पौडी) संसदीयक्षेत्रात् पञ्चवारं लोकसभासांसदः निर्वाचितः। केन्द्रे अटलबिहारीवाजपेयीसरकारे सड़कपरिवहनराजमार्गमन्त्रीरूपेण कार्यं कुर्वन् तेन देशस्य सड़कसम्पर्कव्यवस्थायै नूतना दिशा प्रदत्ता। “स्वर्णचतुर्भुज” तथा राष्ट्रीयराजमार्गविकासपरियोजनानां गतिवर्धने तस्य महत्त्वपूर्णा भूमिका आसीत्, या अद्यापि तस्य महान् योगदानरूपेण स्मर्यते।
उत्तराखण्डस्य मुख्यमन्त्रिरूपेण अपि बीसीखण्डूरी सरलजीवनस्य सुशासनस्य च आदर्शं प्रस्तुतवान्। सः द्विवारं राज्यस्य मुख्यमन्त्री अभवत्— प्रथमवारं २००७ तः २००९ पर्यन्तं, द्वितीयवारं २०११ तः २०१२ पर्यन्तम्। तस्य कार्यकाले पारदर्शिता उत्तरदायित्वं भ्रष्टाचारविरोधे कठोरदृष्टिकोणश्च प्रमुखपरिचयरूपेण प्रसिद्धाः अभवन्। खण्डूरीमहाभागेन राजनीतिः सत्तायाः साधनरूपेण न, अपितु सेवायाः दायित्वरूपेण स्वीकृता।
उत्तराखण्डस्य मुख्यमन्त्रिरूपेण खण्डूरीमहाभागस्य कार्यकालः विशेषतया सरलजीवनस्य सुशासनस्य च कृते प्रसिद्धः आसीत्। तेन प्रशासने पारदर्शिता उत्तरदायित्वं ईमानदारी च प्राधान्येन स्वीकृता। सुदृढलोकायुक्तव्यवस्था भ्रष्टाचारविरोधिपहलाश्च तस्य शासनस्य प्रमुखपरिचयः अभवन्। सः तेषु नेतृषु आसीत् ये शासकीयाडम्बरात् दूरीं स्थापयित्वा सामान्यजनैः सह प्रत्यक्षसंवादं स्थापयन्ति स्म। तेन सत्ता कदापि व्यक्तिगतसुविधायाः साधनरूपेण न स्वीकृता। तस्य सरलजीवनं स्पष्टवादिता राष्ट्रहितं सर्वोपरि स्थापयितुं कार्यशैली च जनसमाजे तस्मै विशेषसम्मानम् अददात्।
बीसीखण्डूडीमहाभागस्य व्यक्तित्वे कठोरानुशासनस्य विनम्रव्यवहारस्य च अद्भुतः संगमः आसीत्। सः अल्पं वदति स्म, किन्तु तस्य निर्णयाः कार्यशैली च जनमानसे गाढां छापं त्यक्तवन्तः। राजनीतिक्षेत्रे अपि तेन सैनिकमूल्यानि जीवितानि तथा राष्ट्रहितं सर्वोपरि स्थापितम्। जनकेन्द्रितप्रशासनिकसुधाराणां विषये तेन अनेकाः महत्त्वपूर्णाः पहलाः कृताः।
खण्डूरीमहाभागस्य जीवनं सेनातः राजनीतिपर्यन्तं राष्ट्रस्य समाजस्य च निःस्वार्थसेवायै समर्पितम् आसीत्। तस्य गमनम् उत्तराखण्डस्य सार्वजनिकजीवने तादृशस्य अध्यायस्य समाप्तिः अस्ति, यस्य परिचयः संघर्षः सरलता सुशासनं च आसीत्।