Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 19 मईमासः (हि.स.)।
जिलाधिकारी मयूरदीक्षितः मङ्गलवासरे ऋषिकुलक्रीडांगणे निर्मितस्य चतुधामयात्रायाः ऑफलाइनमाध्यमेन पञ्जीकरणकेन्द्रस्य निरीक्षणं कृत्वा व्यवस्थाः अवलोकितवान्। अस्मिन् अवसरे तेन पञ्जीकरणार्थम् आगतैः तीर्थयात्रिभिः सह संवादं कृत्वा उपलब्धसुविधानां व्यवस्थापनस्य च विषये सूचना प्राप्ता।
निरीक्षणकाले जिलाधिकरिणा सम्बन्धिताधिकारिणः निर्देशिताः यत् चतुर्धामयात्रां प्रति आगच्छतां श्रद्धालूनां कृते पञ्जीकरणकेन्द्रे सर्वाः व्यवस्थाः समुचिताः सुदृढाश्च स्थापनीयाः। तेन उक्तं यत् श्रद्धालुभ्यः केनचिदपि प्रकारेण असुविधायाः अनुभवः न भवेत्, अतः सर्वाः आवश्यकसुविधाः सर्वदा उपलब्धाः भवन्तु।
जिलाधिकारी उक्तवान् यत् वर्तमानकाले चतुर्धामयात्रा स्वस्य चरमावस्थायां वर्तते तथा मुख्यमन्त्रिणः निर्देशनानुसारं तीर्थयात्रिणां सुविधा-सुरक्षयोः कृते व्यापकव्यवस्थाः कृताः सन्ति। तेन सूचितं यत् केन्द्रे पेयजलस्य, शौचालयस्य, स्वास्थ्यसेवानां, सूचनाप्रदानार्थं सहायतोत्पीटिकायाः च समुचितव्यवस्था कृता अस्ति, येन श्रद्धालुभ्यः किमपि क्लेशं न भवेत्। तेन उपलब्धसुविधानां गुणवत्तायाः अपि मूल्यांकनं कृत्वा अधिकारिभ्यः आवश्यकनिर्देशाः दत्ताः।
जिलाधिकारी उक्तवान् यत् चारधामयात्रां प्रति आगच्छन्तीनां श्रद्धालूनां कृते श्रेष्ठानुभवप्रदानं प्रशासनस्य प्राथमिकता अस्ति। अस्मिन् अवसरे जिलापर्यटनाधिकारी सुशीलनौटियालः उक्तवान् यत् अधुना पर्यन्तं ऑनलाइनमाध्यमेन ३७,२८,५७१ श्रद्धालवः पञ्जीकरणं कृतवन्तः, यदा ऋषिकुलक्रीडांगणस्थिते ऑफलाइन-पञ्जीकरणकेन्द्रे १,९४,१७२ श्रद्धालूनां पञ्जीकरणं सम्पन्नम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani