Enter your Email Address to subscribe to our newsletters

जौनपुरनगरम्, १९ मे-मासः (हि.स.)। उत्तरप्रदेशस्य जौनपुर-स्थिते वीरबहादुरसिंह-पूर्वाञ्चल-विश्वविद्यालयस्य त्रिंशत्तमः दीक्षान्त-समारोहः अग्रिमे २७ जुलाईमासे २०२६ तमे वर्षे आयोज्यते। अस्य विषये महन्त-अवेद्यनाथ-सभागारे मङ्गलवासरे कुलपतिः प्रो.वन्दना-सिंहस्य अध्यक्षतायां सिद्धता-सभा अभवत्। सभायां समितीनां संयोजकैः सदस्यैः सह चर्चा कृता।
कुलपतिः प्रो.वन्दना-सिंहः उक्तवती यत् दीक्षान्त-समारोहस्य सिद्धतासु सर्वेषां निर्देशानां प्राथमिकतया पालनं भविष्यति। अस्य विषये यानि प्रशासनिक-कार्याणि करणीयानि सन्ति, तासां सञ्चिकाः अग्रे सम्प्रेष्य शीघ्रं सम्पन्नानि क्रियन्ताम्। अस्मिन् अवसरे समारोहस्य गुणवत्तां अधिकं श्रेष्ठां कर्तुं संयोजकेभ्यः विचाराः अपि गृहीताः। सभायां सर्वेषां पाठ्यक्रमाणां परीक्षाफलानि ३० जून-पर्यन्तं सर्वथा प्रकाशितानि भवेरन् इति निर्देशः दत्तः। सभायां कुलसचिवः केशलालः, परीक्षा-नियन्त्रकः डॉ.विनोदकुमार-सिंहः च स्वविचारान् व्यक्तवन्तौ।
अस्मिन् अवसरे प्रो.देवराज-सिंहः, प्रो.मनोज-मिश्रः, डीएसडब्ल्यू प्रो.प्रमोदकुमार-यादवः, प्रो.राजकुमारः, प्रो.राजेश-शर्मा, प्रो.रविप्रकाशः, प्रो.प्रमोद-यादवः, प्रो.गिरधर-मिश्रः, प्रो.मिथिलेश-सिंहः, डॉ.मनीष-गुप्तः, डॉ.अमरेन्द्र-सिंहः, डॉ.जाह्नवी-श्रीवास्तवः, डॉ.सुनीलकुमारः, डॉ.दिग्विजय-सिंह-राठौरः, डॉ.मनीष-प्रताप-सिंहः, डॉ.श्याम-कन्हैया, डॉ.अनुराग-मिश्रः, डॉ.चन्दन-सिंहः, डॉ.अनु-त्यागी, डॉ.मङ्गलाप्रसाद-यादवः, दिव्येन्दु-मिश्रः, उपकुलसचिवः अजीत-प्रताप-सिंहः, सुनीलकुमारः, डॉ.राजनारायण-सिंहः, कर्मचारी-संघ-अध्यक्षः वारीन्द्र-सिंहः, रमेश-कुमार-यादवः, राधेश्याम-सिंह-मुन्ना, डॉ.इन्द्रेशकुमारः, डॉ.राजेश-सिंहः, सुशील-प्रजापतिः इत्यादयः समस्ताः प्रशासनिक-अधिकारीणः तथा सर्वासां समितीनां संयोजकाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan