खाद्य पदार्थानां फोर्टिफिकेशन इत्येतत् वर्धयितुं राष्ट्रियं सम्मेलनम्
नवदिल्ली, 19 मईमासः (हि.स.)।भारते ‘छिपी भूख’ तथा सूक्ष्मपोषकतत्त्वानां न्यूनतायाः समाधानार्थं मङ्गलवासरे इण्डिया हैबिटेट् सेन्टर् इत्यत्र मुख्यखाद्यपदार्थ-उद्योगनेतॄणां राष्ट्रियसम्मेलनम् आयोजितम्। अस्य सम्मेलनस्य आयोजनं टेक्नोसर्वद्वारा सञ्चालितेन
खाद्य पदार्थ उद्योग के राष्ट्रीय सम्मेलन में शामिल नेता।


नवदिल्ली, 19 मईमासः (हि.स.)।भारते ‘छिपी भूख’ तथा सूक्ष्मपोषकतत्त्वानां न्यूनतायाः समाधानार्थं मङ्गलवासरे इण्डिया हैबिटेट् सेन्टर् इत्यत्र मुख्यखाद्यपदार्थ-उद्योगनेतॄणां राष्ट्रियसम्मेलनम् आयोजितम्। अस्य सम्मेलनस्य आयोजनं टेक्नोसर्वद्वारा सञ्चालितेन मिलर्स् फॉर न्यूट्रिशन् इत्यनेन भारतीयउद्योगपरिसंघस्य (सीआईआई) खाद्यकृषिउत्कृष्टताकेन्द्रस्य (सीआईआई फेस्) सहयोगेन कृतम्।

सम्मेलने सर्वकारः, खाद्यउद्योगः, मिलर्स्, पोषणविशेषज्ञाः तथा विकासक्षेत्रे सम्बद्धाः विविधहितधारकाः एकस्मिन् मंचे समानीय मुख्यखाद्यपदार्थानां फोर्टिफिकेशनस्य व्यापकस्तरे संवर्धनार्थं व्यावहारिकमार्गचित्रस्य निर्माणविषये चर्चा कृता।

अस्मिन् अवसरे खाद्यतैलम्, तण्डुलः, गोधूमचूर्णम् इत्यादिषु श्रेणीषु फोर्टिफाइड्-खाद्यपदार्थानां व्यापकस्वीकारार्थं उद्योगव्यापिसहयोगस्य संवर्धनाय बलं दत्तम्। चर्चायाः मुख्यकेन्द्रं उद्योगसहभागितायाः सुदृढीकरणम्, उपभोक्तृषु जागरूकतायाः विश्वासस्य च संवर्धनम्, खुद्रा-व्यावसायिकस्तरे स्वीकृतिविस्तारः तथा कुपोषणस्य ‘छिपी भूख’ इत्यस्य च समाधानार्थं स्थायि-बाजाराधारितसमाधानानां निर्माणम् आसीत्।

अस्य सम्मेलनस्य सम्बोधने मिलर्स् फॉर न्यूट्रिशन्, टेक्नोसर्व तथा एशिया-प्रोग्राम-लीडर् एवं सीनियर्-प्रैक्टिस्-लीडर मनोजितइन्द्रः उक्तवान् यत् भारतेन मुख्यखाद्यपदार्थानां फोर्टिफिकेशनस्य संवर्धने महत्त्वपूर्णा प्रगतिः कृता अस्ति, किन्तु व्यापकस्तरे ‘छिपी भूख’ इत्यस्य समाधानार्थं खाद्यउद्योगपरिस्थितितन्त्रे गहनसहयोगस्य आवश्यकता वर्तते। सः उक्तवान् यत् एषः सम्मेलनः उद्योगस्य, विकाससहयोगिनां तथा नीतिनिर्मातॄणां मध्ये समन्वयस्य सुदृढीकरणे सहायकः भविष्यति।

सम्मेलने अस्मिन् विषये अपि सहमति अभवत् यत् खाद्यफोर्टिफिकेशनं केवलं नीत्याधारितपहलपर्यन्तं सीमितं न स्थापनीयम्, अपितु नवाचारस्य, उपभोक्तृसहभागितायाः तथा सुदृढपरिस्थितितन्त्रसहकारितानाम् माध्यमेन व्यापक-उद्योग-आन्दोलनरूपेण विकसितव्यं भवेत्। सहभागिभिः मिलर्स् कृते तकनीकीसहायतायाः संवर्धनम्, फोर्टिफाइड्-खाद्यपदार्थानां उपलब्धतायाः सुधारः, गुणवत्तामानकेषु श्रेष्ठ-उद्योग-समन्वयस्य स्थापना तथा उपभोक्तृषु विश्वासवृद्धेः आवश्यकतायाः विषये अपि चर्चा कृता।

अस्य प्रयत्नस्य महत्त्वं प्रकाशयन् मिलर्स् फॉर न्यूट्रिशन् इण्डिया इत्यस्य कन्ट्री-प्रोग्राम-मैनेजर् अभिषेकशुक्लः उक्तवान् यत् फोर्टिफिकेशनं भारते पोषणसुरक्षायाः सुदृढीकरणे परिवर्तनकारीं भूमिकां निर्वहितुं शक्नोति। सः उक्तवान् यत् उद्योगसाझेदारीनाम्, बाजाराधारितदृष्टिकोणस्य तथा वर्धमानोपभोक्तृजागरूकतायाः माध्यमेन फोर्टिफाइड्-मुख्यखाद्यपदार्थानां व्यापकस्तरे विस्तारः कर्तुं शक्यते।

सम्मेलने खाद्यसुरक्षा-मानक-प्राधिकरणस्य (एफएसएसएआई) निदेशकः (विज्ञान एवं मानक) डॉ. राकेशकुमारः, सीआईआई राष्ट्रियपोषणसमितेः पूर्वसहाध्यक्षः सिराज ए. चौधरी, अडानी विल्मर् लिमिटेड् इत्यस्य एग्री-बिजनेस-अनुसन्धान-विकास-प्रमुखः विद्याशङ्कर-सत्यकुमारः, मदर् डेयरी फ्रूट् एण्ड् वेजिटेबल्स् इत्यस्य प्रबन्धनिदेशकः जे.टी.चारी तथा दी अक्षयपात्र फाउण्डेशन इत्यस्य राष्ट्रियाध्यक्षः भरतर्षभादासहरे इत्यादयः अनेकाः वरिष्ठ-सरकारी-प्रतिनिधयः उद्योगजगतः नेतारश्च सहभागिनः अभवन्।

चर्चासु मुख्यधारायाः पैकेज्ड्-खाद्यउत्पादेषु पोषणस्य एकीकरणम् तथा दीर्घकालिक-जनस्वास्थ्य-प्रभावं प्रदातुं समर्थानां व्यावसायिकरूपेण व्यवहार्य-फोर्टिफिकेशन-समाधानानां व्यापकस्तरे कार्यान्वयने निजीक्षेत्रस्य वर्धमानभूमिकायाः रेखाङ्कनं कृतम्।

सम्मेलनस्य समापनं विविधक्षेत्राणां मध्ये सहयोगस्य सुदृढीकरणेन, फोर्टिफिकेशन-उत्कृष्टतायाः संवर्धनेन, खाद्यप्रसंस्करणकर्तॄणां मिलर्स च कृते क्षमतानिर्माण-प्रयत्नानां समर्थनदानेन तथा देशव्यापि फोर्टिफाइड्-मुख्यखाद्यपदार्थानां व्यापकविस्तारस्य साझा-प्रतिबद्धतया सह अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani