Enter your Email Address to subscribe to our newsletters

नवदेहली, 02 मईमासः (हि.स)।एक्सिस-बैंक-संस्थया शनिवासरे अत्र स्वकीया प्रथमा डिजिटल-लॉकर-केन्द्रित-शाखा उद्घाटिता। बैंकस्य अस्याः नूतन-सुविधायाः उद्देश्यं स्वचालित-लॉकर-सेवानां माध्यमेन उत्तमा सुरक्षा ग्राहक-अनुभवः च प्रदानम् अस्ति। एक्सिस-बैंक-संस्थया शनिवासरे एकेन निवेदनेन उक्तं यत् एषा शाखा सुरक्षित-बैंकिंग-क्षेत्रं नूतन-परिभाषया परिभाषितुं एकं पदम् अस्ति। अस्मिन् उन्नत-स्वचालनम्, उच्चस्तरीय-सुरक्षा तथा अत्याधुनिक-लॉकर-सेवानां माध्यमेन ग्राहकेभ्यः उत्तम-अनुभव-प्रदाने बलं दत्तम् अस्ति। सहैव बैंक-संस्था विशेषतः शहरी-क्षेत्रेषु 'सेफ-डिपोजिट-लॉकर' इत्यस्य वर्धमानां माङ्गं पूरयति।
अस्यां नूतन-शाखायां डिजिटल-स्वचालित-लॉकर-प्रणाली दत्ता अस्ति, येन ग्राहकाः अधिक-सुरक्षां सुलभ-प्रवेशं च प्राप्स्यन्ति। अस्मिन् बहुस्तरीय-सुरक्षा, संवेदक-आधारित-संरक्षणं तथा केन्द्रीकृत-निरीक्षित-तिजोरी सदृशाः सुविधाः सम्मिलिताः सन्ति। अस्याः विशेषता एषा अस्ति यत् ग्राहकाः अहोरात्रं (24×7) स्व-लॉकर-पर्यन्तं गन्तुं शक्नुवन्ति। अस्याः शाखायाः उद्घाटनम् एम. नागराजू महोदयेन कृतम्। अस्मिन् अवसरे बैंकस्य प्रबन्ध-निदेशकः अमिताभ-चौधरी तथा कार्यकारी-निदेशकः मुनीश-शारदा अपि उपस्थितौ आस्ताम्।
एक्सिस-बैंक-संस्थया एक्स पटले लिखितं यत्- आगामि-पीढ्याः रोबोटिक-स्मार्ट-लॉकरैः सह बैंकिंग-सुरक्षायाः भविष्यस्य अनुभवं कुर्वन्तु, यत्र निर्माणं सटीक-यन्त्रकला च मिलतः। उत्तम-बायोमेट्रिक-प्रमाणीकरणेन षट्-बिन्दु-संवेदक-प्रणाल्या च सह भवतः बहुमूल्यानि वस्तूनि सुरक्षितानि सुलभाानि च भविष्यन्ति। अनेन सह बैंकिंग-क्षेत्रस्य भविष्ये पदं स्थापयन्तु।
देशे बैंक-लॉकर-इत्यस्य माङ्गं तीव्रगत्या वर्धते, विशेषतः मेट्रो-नगरेषु विशाल-नगरेषु च अस्य माङ्गं महती अस्ति। एकस्य अनुमानस्य अनुसारं २०३० वर्षं यावतं प्रायः ६ कोटि जनानां कृते बैंक-लॉकर-आवश्यकता भविष्यति, यदा तु वर्तमानकाले केवलं ६० लक्षं लॉकर-सुविधाः उपलब्धाः सन्ति। अनेन स्पष्टं भवति यत् माङ्ग-पूर्ति-मध्ये महदन्तरं वर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता