Enter your Email Address to subscribe to our newsletters

देहरादून-नगरम्, ०२ मईमासः (हि.स.)। मुख्यमन्त्री पुष्कर-सिंह-धामी शनिवासरे सचिवालये यमकेश्वर-पौड़ी-श्रीनगर-कोटद्वार-क्षेत्राणां सीएम-घोषणानां समीक्षाम् अकुर्वत्। अस्मिन् अवसरे तेन अधिकारिणः निर्देशिताः यत् येषां घोषणानां शासनादेशाः अद्यापि न निर्गताः, ते १५ जूनपर्यन्तं अवश्यम् निर्गम्यन्ताम्। सर्वे विभागाः परस्पर-समन्वयेन जनसमस्यानां समाधानं कुर्वन्तु इति अपि उक्तम्।
मुख्यमन्त्रिणा प्रभावी-निगराण्यर्थं प्रोग्राम-इवैल्यूएशन-एण्ड-रिव्यू-टेक्निक् (पीईआरटी)-चित्रस्य निर्माणाय, विद्युत्-पेयजल-वनाग्नि-मानव-वन्यजीव-संघर्ष-सड़क-सम्बद्ध-समस्यानां च शीघ्र-समाधानाय निर्देशाः दत्ताः। सः अवदत् यत् विधायकैः क्षेत्रेषु याः समस्याः उद्धृताः सन्ति, ताः अधिकारीभिः गम्भीरतया गृह्य प्राथमिकतया समाधानं क्रियन्ताम्।
मुख्यमन्त्री धामी अवदत् यत् राज्यस्य प्रत्येक-विकासखण्डे बालिकानां कृते एकैकः छात्रावासः निर्मास्यते। अस्य कृते प्रत्येक-ब्लाकमध्ये छात्राणां अधिक-संख्या-युक्तानि विद्यालयानि चिन्हीकृत्य आवश्यक-भूमिः उपलभ्यताम् इति निर्देशः दत्तः। सः अपि अवदत् यत् रघुनाथ-मन्दिरम्, कोट-खण्डे स्थितं लक्ष्मण-मन्दिरम् तथा फलस्वाड़ी-स्थितं सीता-माता-मन्दिरम् धार्मिक-परिपथरूपेण भव्यतया विकसितव्यम्।
मुख्यमन्त्री अवदत् यत् विधायकैः केन्द्रीय-विद्यालय-संघटनस्य उद्घाटनाय प्रदत्तेषु प्रस्तावेषु शिक्षा-विभागः सम्बद्धाः च जनपदाधिकारी केन्द्रीय-सरकारस्य मानदण्डानुसारं सर्वाणि आवश्यक-कार्याणि सुनिश्चितयन्तु, येन प्रस्तावाः प्रेषिताः सन्तः शीघ्रं स्वीकृतिं प्राप्नुयुः। यूनां प्रतियोगिता-परीक्षाणां सिद्ध्यर्थं पौड़ी-नगरे बहुउद्देश्यीय-सभागारः (मल्टीपरपज-हॉल) निर्मीयताम् इति अपि उक्तम्।
मुख्यमन्त्री धामी अधिकारिणः निर्देशितवान् यत् विधायकैः सभायाम् उद्धृतानां समस्यानां सम्बन्धित-विभागीय-सचिवैः प्राथमिकतया समाधानं सुनिश्चितं क्रियताम्। तेन उक्तं यत् मुख्यमन्त्री-घोषणासम्बद्धानां रोपवे-प्रकरणानां पृथक् समीक्षा क्रियताम्। सहैव पार्किंग-समस्यानां शीघ्रं समाधानं क्रियताम् तथा शासकीय-कार्यालयेषु नियमिततया सौर-पटलानि स्थाप्यन्ताम्।
अस्यां सभायां कैबिनेट्-मन्त्री सतपाल-महाराज:, डॉ.धन-सिंह-रावत:, विधायकाः रेनू-बिष्ट:, राजकुमार-पोरी, दलीप-सिंह-रावत:, मुख्य-सचिवः आनन्द-बर्द्धन, प्रमुख-सचिवः डॉ.आर.मीनाक्षी-सुन्दरम्, सचिवाः शैलेश-बगोली, रविनाथ-रमन्, डॉ. पंकज-कुमार-पाण्डेय:, डॉ.आर.राजेश-कुमार:, रणवीर-सिंह-चौहान इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता