Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०२ मईमासः (हि.स.)। विदेश-मन्त्री डॉ.एस.जयशङ्करः ०२ तः १० मईपर्यन्तं जमैका, सूरीनाम तथा त्रिनिदाद-एवं-टोबैगो-देशानां आधिकारिक-यात्रायां गमिष्यति।
विदेश-मन्त्रालयेन उक्तं यत् यात्राकाले विदेश-मन्त्री त्रयाणां देशानां नेतृत्वेन सह साक्षात्कारं करिष्यति तथा स्वसमकक्षैः सह द्विपक्षीय-सम्बन्धानां, पारस्परिक-हितस्य क्षेत्रीय-वैश्विक-प्रश्नानां च विषये चर्चां करिष्यति।
अस्याः यात्रायाः उद्देश्यं भारतस्य एतेषां देशैः सह राजनैतिक-सम्बन्धानां सुदृढीकरणं तथा दीर्घकालिक-मैत्रीपूर्ण-सम्बन्धानां प्रवर्धनं अस्ति, यत् दक्षिण-दक्षिण-सहयोगस्य विकासं च प्रति परस्पर-प्रतिबद्धतां दर्शयति।
उल्लेखनीयम् अस्ति यत् गिरमिटिया-समुदायस्य उपस्थितौ कारणात् एते देशाः भारतेन सह विशेष-सम्बन्धं धारयन्ति। विदेश-मन्त्री एतेषां देशानां प्रमुख-व्यापार-नेतृभिः तथा भारतीय-समुदायस्य सदस्यै: सह अपि द्विपक्षीय-साक्षात्कारा: संवादाश्च करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani