Enter your Email Address to subscribe to our newsletters

-मुख्यमन्त्री बिजली बिल समाधान योजनातः अमिलत् रक्षणम्
बिलासपुरम् 02 मईमासः(हि.स.)।
सुशासनतिहार २०२६ इति कार्यक्रमः सामान्यजनानां कृते रक्षणसमाधानयोः सशक्तमाध्यमरूपेण प्रकाशते। अस्यैव क्रमस्य अन्तर्गतं बिलासपुरजिलायाः हरदिकलाग्रामनिवासिन्याः ननकीबाय्याः कृते एषः कार्यक्रमः वरदानमिव अभवत्। आर्थिककारणैः दीर्घकालात् विद्युत्बिलपत्रस्य भुगतानं कर्तुं असमर्था ननकीबाई योजनायाः अन्तर्गतं त्रयोविंशतिसहस्राधिकरूप्यकाणां शिथिलतांप्राप्तवती। सा एतस्मै उपकाराय मुख्यमन्त्रिणः विष्णुदेवसायस्य प्रति आभारं व्यक्तवती।
हरदिकलाग्रामस्य ननकीबाई दीर्घकालात् वर्धमानविद्युत्बिलसमस्यया पीडिता आसीत्। तस्याः कुलविद्युत्बिलपत्रं नवत्यधिकनवशतोत्तरषट्षष्टिसहस्रं रूप्यकाणि (६९,८९०) अभवत्, यत् तस्याः कृते अत्यन्तं दुष्करं भुगतानम् आसीत्। सा भावुकतया उक्तवती यत् आर्थिकदुर्बलतया सा बिलस्य भुगतानं कर्तुं न शक्नोति स्म। बिलसम्बन्धे सा निरन्तरं चिन्तायां आसीत्, समाधानस्य कश्चित् मार्गः अपि न दृश्यते स्म।
सुशासनतिहारकार्यक्रमे आयोजिते समाधानशिविरे तया स्वसमस्या अभिलेखिता। शिविरे उपस्थितैः अधिकारिभिः तत्परता प्रदर्शिता, प्रकरणस्य परीक्षणं कृतम्, तथा च मुख्यमन्त्रिविद्युद्विलसमाधानयोजनायाः अन्तर्गतं तस्यै राहतः प्रदत्ता। अस्यां योजनायां तस्यै २३,११५ रूप्यकाणां छूटिः प्राप्ता। तया पञ्जीकरणरूपेण ६७०० रूप्यकाणि दत्तानि, अनन्तरं तस्याः अवशिष्टबिलपत्रे न्यूनीकरणं कृतम्। अधुना सा ४५,८८५ रूप्यकाणां भुगतानं करिष्यति, यस्मिन् राशिरूपेण अपि सुविधा उपलब्धा अस्ति।
एतस्मात् राहतप्राप्त्या भावुकाभूता ननकीबाई मुख्यमन्त्रिणः विष्णुदेवसायस्य प्रति कृतज्ञतां व्यक्तवती, उक्तवती च यत् सरकारस्य अस्य उपक्रमस्य कारणेन तस्यै महान् उपकारः अभवत्। अधुना सा सुलभतया स्वविद्युत्बिलस्य भुगतानं कर्तुं समर्था भविष्यति।
---------------
हिन्दुस्थान समाचार