हरियाणायाः राज्यपालः प्रधानमंत्रिणा सहामिलत्
नवदिल्ली, 02 मईमासः (हि.स.)। हरियाणाराज्यस्य राज्यपालः प्रो० असीमकुमार घोष शनिवासरे अत्र प्रधानमन्त्रिणा नरेन्द्रमोदिना सह शिष्टाचारमेलनं कृतवान्। अस्मिन् अवसरे हरियाणायाः प्रथममहिला मित्रा घोष तथा राज्यपालस्य निजी सचिवः शंख चटर्जी अपि उपस्थितौ
हरियाणा के राज्यपाल प्रो. असीम कुमार घोष शनिवार को नई दिल्ली में प्रधानमंत्री नरेन्द्र मोदी के साथ


नवदिल्ली, 02 मईमासः (हि.स.)।

हरियाणाराज्यस्य राज्यपालः प्रो० असीमकुमार घोष शनिवासरे अत्र प्रधानमन्त्रिणा नरेन्द्रमोदिना सह शिष्टाचारमेलनं कृतवान्। अस्मिन् अवसरे हरियाणायाः प्रथममहिला मित्रा घोष तथा राज्यपालस्य निजी सचिवः शंख चटर्जी अपि उपस्थितौ आस्ताम्। प्रधानमन्त्रीकार्यालयेन उभयोः नेतृयोः मिलनस्य चित्रं सञ्चारयित्वा एषा सूचना प्रदत्ता।

राज्यपालेन हरियाणाराज्यस्य समग्रविकासाय प्रधानमन्त्रिणः निरन्तरं समर्थनं मार्गदर्शनं प्रोत्साहनं च प्रति कृतज्ञता व्यक्तिता। तेन प्रधानमन्त्रिणं प्रति राज्यस्य प्रगति:, प्रचलमानाः जनकल्याणकारी योजनाः अन्ये च प्रमुखाः विकासकार्याः अवगताः कृताः।

राज्यपालेन भविष्याभिमुखविश्वविद्यालयशिक्षाप्रणाल्याः अवधारणायाः विषये अपि चर्चा कृता, यस्यां कृत्रिमबुद्धिमत्ता तथा क्वाण्टम संगणन इत्यादिषु उदयमानक्षेत्रेषु विशेषध्यानं केन्द्रितम् अस्ति।

अस्मिन् एव अवसरः शंख चटर्जी राज्यपालस्य प्रथममहिलायाः च सह प्रधानमन्त्रिणे स्वीये द्वे लिखितपुस्तके उपहाररूपेण अर्पितवान्। एते ग्रन्थौ “अद्वैतवेदान्तः एकः अनोखः दर्शनः” तथा “सामाजिकदृष्टिकोणे धर्मक्षेत्र कुरुक्षेत्र” इति नाम्नी, येषां अद्यतनकाले राज्यपालः प्रो० घोष, मुख्यमन्त्री नायब सिंह सैनी तथा विधानसभा-अध्यक्षः हरविंदर सिंह कल्याणः उपस्थितौ विमोचनं कृतवान्।

---------------

हिन्दुस्थान समाचार