सर्वकारेण उक्तं यत् एलपीजी-अनीलकोषाणां शत-प्रतिशतं आपूर्तिः सुनिश्चिता, आपूर्तिः अवरुद्धा इति किमपि प्रतिवेदनं नास्ति
नवदिल्ली, ०२ मईमास: (हि.स.)। केन्द्र-सर्वकारेण पश्चिम-एशिया-संकटस्य सन्दर्भे उक्तं यत् देशे एलपीजी-सिलिण्डर-आपूर्तौ कश्चन अभावः नास्ति तथा शत-प्रतिशतं आपूर्तिः सुनिश्चिता अस्ति। पेट्रोलियम-मन्त्रालयेन स्पष्टं कृतं यत् घरेलु-एलपीजी, पीएनजी तथा सीएनज
पेट्रोलियम मंत्रालय के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, ०२ मईमास: (हि.स.)। केन्द्र-सर्वकारेण पश्चिम-एशिया-संकटस्य सन्दर्भे उक्तं यत् देशे एलपीजी-सिलिण्डर-आपूर्तौ कश्चन अभावः नास्ति तथा शत-प्रतिशतं आपूर्तिः सुनिश्चिता अस्ति। पेट्रोलियम-मन्त्रालयेन स्पष्टं कृतं यत् घरेलु-एलपीजी, पीएनजी तथा सीएनजी-आपूर्तिः निर्बाधरूपेण प्रचलति।

मन्त्रालयेन उक्तं यत् एलपीजी-बुकिंग ९९% यावत्, तथा ओटीपी-आधारित-वितरणं ९४% अधिकं प्राप्तम्। मार्च २०२६ तः अद्यावधि ५.९६ लक्षं पीएनजी-संयोजनानि प्रदत्तानि, तथा ६.६६ लक्षं नागरिकाः नवीन-संयोजनाय पञ्जीकृताः।सरकारेण नागरिकाः अपि सूचिताः यत् भयेन इन्धन-सञ्चयः न कर्तव्यः तथा दुष्प्रचारेभ्यः सावधानं भवितव्यम्। डिजिटल-बुकिंग-प्रयोगः कर्तव्यः इति अपि निर्देशः दत्तः।

पेट्रोलियम-मन्त्रालयेन पश्चिम-एशिया-स्थिते परिवर्तमाने परिस्थितौ पेट्रोल-डीजल-एलपीजी इत्यादीनां निर्बाध-आपूर्तये कृतानां उपायानां विषये उक्तं यत् नागरिकाः भयेन इन्धन-सञ्चयः न कुर्वन्तु, यतः सर्वकारः आपूर्तिं सुनिश्चेतुं सर्वान् सम्भाव्यान् प्रयासान् करोति।

मन्त्रालयेन उक्तं यत् औद्योगिक-क्षेत्रे अपि रसायन-उत्पादानां आपूर्तिः क्रियते तथा २,९२२ तः अधिकाः भारतीय-नाविकाः सुरक्षिततया स्वदेशं प्रत्यागताः।

हिन्दुस्थान समाचार / Dheeraj Maithani