ज्ञान-विज्ञान-समितिः केवलं संगठनं न, अपितु समाज-निर्माणस्य आन्दोलनम् अस्ति
मण्डी-नगरम्, ०२ मईमासः (हि.स.)। हिमाचल-ज्ञान-विज्ञान-समितेः एकविंशतितमः जनपद-समारोहः साक्षरता-भवने सौली-खड्ड-स्थले मण्डी-नगरे शनिवासरे प्रारब्धः। अस्मिन् सम्मेलने त्रयोदश-खण्डेभ्यः आगताः शताधिकाः प्रतिनिधयः सहभागं कुर्वन्ति। हिमाचल-ज्ञान-विज्ञान-सम
ज्ञान विज्ञान समिति के 21वें जिला सम्मेलन के उदघाटन अवसर पर।


मण्डी-नगरम्, ०२ मईमासः (हि.स.)। हिमाचल-ज्ञान-विज्ञान-समितेः एकविंशतितमः जनपद-समारोहः साक्षरता-भवने सौली-खड्ड-स्थले मण्डी-नगरे शनिवासरे प्रारब्धः। अस्मिन् सम्मेलने त्रयोदश-खण्डेभ्यः आगताः शताधिकाः प्रतिनिधयः सहभागं कुर्वन्ति। हिमाचल-ज्ञान-विज्ञान-समितेः राज्य-सचिवः सत्यवान्-पुण्डीर उक्तवान् यत् हिमाचले १९९१ तमे वर्षे साक्षरता-अभियानेन सह आरब्धः जन-विज्ञान-आन्दोलनम् अधुना पञ्चत्रिंशद्वर्ष-पूर्तिं प्रति गच्छति।

तेन उक्तं यत् हिमाचल-ज्ञान-विज्ञान-समितिः केवलं संगठनं न, अपितु तादृशस्य समाजस्य निर्माणाय प्रवर्तमाणम् आन्दोलनम् अस्ति, यस्मिन् जनाः स्वस्य तथा स्वपरिसरस्य परिस्थितीन् अवगन्तुं ताः च उन्नेतुं समाधानानि अन्वेष्टुं समर्थाः भवन्ति। वर्तमान-स्थितीनां विषये सः अवदत् यत् विकासस्य विविधैः शासकीय-कथनै: अपि सह मानव-विकास-सूचकाङ्काः दर्शयन्ति यत् अस्माकं देशः सर्वेषु स्तरषु अपि पश्चादेव स्थितः अस्ति।

सः अपि अवदत् यत् ज्ञान-विज्ञान-समित्या प्रदेश-सरकारस्य सहयोगेन नशा-विरोधे “युवा-रक्ष, भविष्य-रक्ष” इत्यभियानं प्रचलति, तथा च पंचायतानां स्थानीय-निकायानां च आगामि-निर्वाचनान् दृष्ट्वा हिमाचल-दिवस-अवसरे “नशा-मुक्त-निर्वाचन-प्रचारः” इति संकल्पः आरब्धः। अस्मिन् अवसरे समित्या देशव्यापिनः “फ्यूचर-ऑफ-इण्डिया” कार्यक्रमस्य अपि शुभारम्भः कृतः, यस्य उद्देश्यम् युवान् नशातः दूरं स्थापयितुं तथा ये नशाग्रस्ताः सन्ति तान् तस्मात् विमोचयितुम् अस्ति। समितिः राष्ट्रीय-स्तरात् ग्राम-स्तरपर्यन्तं एतत् अभियानं संचालयति, यस्मिन् यूनां सह विविधेषु स्तरषु संवादः क्रियते तथा तान् संगठनेन सह सम्बद्धयितुं प्रयासः क्रियते।

अस्मिन् अवसरे हरियाणा-ज्ञान-विज्ञान-समितेः विशेष-अतिथिरूपेण आगतः सोहनदास उक्तवान् यत् अद्य समाजे रूढयः, अन्धविश्वासाः, विभाजनकारी-राष्ट्रवादी-विचाराः, निरन्तरं वर्धमानः साम्प्रदायिक-परिसरः च दृश्यन्ते, तेषु परिस्थितिषु वैज्ञानिक-चिन्तनमेव समाजं अग्रे नेतुं शक्नोति। अतः यूनां हिंसक-असहिष्णु-असभ्य-भावात् रक्षितुं तान् वैज्ञानिक-रीत्या वस्तूनि अवगन्तुं शिक्षयितव्यम्। अस्य कार्यस्य कृते समर्पितानां तर्कशील-कार्यकर्तृणां आवश्यकता अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता