Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 02 मईमासः (हि.स.)।
केन्द्रीयसर्वकारेण आपदासु आपत्कालीनपरिस्थितिषु च नागरिकेभ्यः शीघ्रसूचनाप्रेषणस्य उद्देशेन “सेल ब्रॉडकास्ट अलर्ट सिस्टम” इति नूतनप्रणाली आरब्धा। अस्यां प्रणाल्याम् सर्वेषां मोबाइलयन्त्राणां पटलस्य उपरि सन्देशपेटिकायां आपत्कालीनसन्देशः प्रादुर्भवति तथा च ध्यानाकर्षणार्थं विशिष्टध्वनिसहितं कम्पनं भवति।
संचारमन्त्री ज्योतिरादित्यसिंधिया महोदयेन अस्याः प्रणाल्याः औपचारिकप्रारम्भः कृतः तथा शनिवासरे देशव्यापिनः सफलपरीक्षणम् अपि सम्पन्नम्। परीक्षणकाले प्रायः ११:४५ वादने समस्तेषु मोबाइलयन्त्रेषु एकस्मिन् समये ध्वनिसहितः आपत्कालीनसन्देशः प्राप्तः। तस्मिन् सन्देशे स्पष्टतया उक्तम् यत् एषः केवलं परीक्षणसन्देशः अस्ति, जनानां काचित् क्रिया अपेक्षिता नास्ति।
एषा अत्याधुनिकप्रणाली संचारमन्त्रालयस्य दूरसंचारविभागेन राष्ट्रियआपदाप्रबन्धनप्राधिकरणस्य सहकार्येण निर्मिता, यया आपदाकाले नागरिकेभ्यः महत्त्वपूर्णसूचनाः समये प्रेषयितुं शक्यन्ते।
एनडीएमए संस्थया दूरसंचारविभागस्य प्रमुखअनुसन्धानविकासकेन्द्रेण “सी डॉट” इत्यनेन विकसितं “सचेत” इति एकीकृतचेतावनीतन्त्रं सफलतया प्रवर्तितम्। एषा प्रणाली अन्ताराष्ट्रियदूरसंचारसंघस्य अनुशंसितस्य “कॉमन अलर्टिंग प्रोटोकॉल” (सीएपी) इत्यस्य आधारेण निर्मिता। अद्य एषा प्रणाली देशस्य सर्वेषु ३६ राज्येषु केन्द्रशासितप्रदेशेषु च कार्यरतास्ति, तथा च भौगोलिकरूपेण निर्दिष्टेषु क्षेत्रेषु मोबाइलप्रयोक्तृभ्यः एसएमएसद्वारा चेतावनीप्रेषणं करोति।
सरकारीदत्तांशानुसारं अस्याः प्रणाल्याः माध्यमेन अद्यपर्यन्तं प्राकृतिकआपदासु, मौसमचेतावनीषु, चक्रवातपरिस्थितिषु च १९ अधिकभारतीयभाषासु १३४ अब्जातिरिक्ताः सन्देशाः प्रेषिताः।
आपदाचेतावनीतन्त्रस्य सुदृढीकरणार्थं अधुना एसएमएससहितं “सेल ब्रॉडकास्ट” (सीबी) इति तकनीकापि समाविष्टा। अस्याः तकनीकायाः साहाय्येन निर्दिष्टभौगोलिकक्षेत्रेषु सर्वेषु मोबाइलयन्त्रेषु एकस्मिन् समये चेतावनीप्रेषणं शक्यते, येन प्रायः तत्क्षणमेव सूचना प्राप्यते।
सुनामी, भूकम्पः, विद्युत्पातः, गैसरिसावः, अन्ये रासायनिकापदाः च यासु स्थितिषु शीघ्रसूचना अत्यावश्यकाः, तासु एषा प्रणाली विशेषतया उपयुज्यते। अस्य स्वदेशीयस्य चेतावनीतन्त्रस्य विकासकार्यम् “सी डॉट” संस्थायै प्रदत्तम्।
प्रारम्भपरीक्षणे दिल्ली एनसीआर सहितेषु सर्वेषु राज्यराजधानीषु मोबाइलप्रयोक्तृभ्यः अंग्रेजी हिन्दी क्षेत्रीयभाषासु च सन्देशः प्रेषितः। सन्देशे उक्तम्— “भारतदेशेन स्वदेशीप्रौद्योगिक्याः उपयोगेन नागरिकानां कृते त्वरितआपदाचेतावनीसेवा आरब्धा। सचेतनागरिकाः सुरक्षितराष्ट्रम्। अस्य सन्देशस्य प्राप्तौ काचित् क्रिया अपेक्षिता नास्ति। एषः परीक्षणसन्देशः अस्ति।”
परीक्षणसमये मेट्रो रेलयानयोः बसयानेषु अन्येषु सार्वजनिकस्थानेषु च एकस्मिन् समये सन्देशप्राप्त्या किञ्चित्कालं जनानां मध्ये भ्रमः उद्वेगश्च अभवत्, किन्तु सन्देशपठनानन्तरं स्थितिः सामान्याभवत्।
सर्वकारेण एषः उपक्रमः “सतर्कनागरिकाः सुरक्षितराष्ट्रम्” इति दिशि महत्त्वपूर्णः पदक्षेपः इति उक्तम्, तथा च नागरिकेभ्यः निवेदनं कृतम् यत् एतेषु परीक्षणसन्देशेषु न खिद्यताम्, यतः एते केवलं आपदासु त्वरितसूचनातन्त्रस्य परीक्षणं सुदृढीकरणं च कर्तुं प्रयुज्यन्ते।
---------------
हिन्दुस्थान समाचार