नेपालस्य प्रधानमंत्रिणे भारतभ्रमणस्य औपचारिकं निमंत्रणं दातुं भारतस्य विदेशसचिवः करिष्यति काठमांडूभ्रमणम्
काठमांडूः, 02 मईमासः (हि.स.)। भारतस्य विदेशसचिवस्य नेपाल-देशस्य प्रति भ्रमणं निश्चितम् अभवत्। नेपालस्य विदेशसचिवस्य अमृत बहादुर राई आमन्त्रणेन भारतस्य विदेशसचिवः विक्रम मिस्री द्विदिनात्मकं नेपाल-भ्रमणं करिष्यति। नेपालस्य विदेशमन्त्रालयेन प्रदत्त
भारतीय विदेश सचिव विक्रम मिस्री


काठमांडूः, 02 मईमासः (हि.स.)।

भारतस्य विदेशसचिवस्य नेपाल-देशस्य प्रति भ्रमणं निश्चितम् अभवत्। नेपालस्य विदेशसचिवस्य अमृत बहादुर राई आमन्त्रणेन भारतस्य विदेशसचिवः विक्रम मिस्री द्विदिनात्मकं नेपाल-भ्रमणं करिष्यति। नेपालस्य विदेशमन्त्रालयेन प्रदत्तसूचनानुसारं सः ११–१२ मई दिनयोः काठमांडू-नगरं आगमिष्यति।

नेपाले बालेन्द्रशाहस्य नेतृत्वे नूतनसरकारस्य गठनानन्तरं भारततः एतत्प्रथमं कूटनीतिकं भ्रमणं भविष्यति। विदेशमन्त्रालयस्य अनुसारं भारतस्य विदेशसचिवः ११ मई दिने काठमांडू-नगरं प्राप्स्यति। अस्य निमित्तं नेपालस्य विदेशसचिवेन अमृतबहादुररायेण तस्मै औपचारिक-आमन्त्रणपत्रं प्रेषितम्।

स्वस्य काठमांडू-भ्रमणस्य क्रमे सः नेपालस्य विदेशमन्त्री शिशिर खनाल, वित्तमन्त्री स्वर्णिम वागले, ऊर्जामन्त्री विराज भक्त श्रेष्ठ च मिलिष्यति। तदतिरिक्तं सत्तारूढदलस्य राष्ट्रियस्वतंत्र पार्टी अध्यक्षेण रवि लामिछाने सह अपि तस्य भेंटः निश्चितः अस्ति।

मिस्री-महोदयेन सह भारतस्य विदेशमन्त्रालयस्य उत्तर-डेस्कस्य प्रभारी अतिरिक्तसचिवः मनु महावार अपि नेपालं गमिष्यति।

अद्यतनकाले दिल्ली-भ्रमणं कृतवन्तः नेपालदेशीयपत्रकारसमूहः सह संवादकाले विदेशसचिवः विक्रम-मिस्री स्वयम् उक्तवान् यत् सः शीघ्रमेव नेपालं भ्रमिष्यति। सः नेपालस्य नूतनसर्वकारेण सह सर्वेषु क्षेत्रेषु सहयोगं निरन्तरं स्थापयितुम् अपि प्रतिज्ञातवान्।

---------------

हिन्दुस्थान समाचार