अपराध-भ्रष्टाचार-साम्प्रदायिकतां प्रति ‘शून्य-सहनशीलता-नीतिः’ निरन्तरं प्रवर्तिष्यते - विजय-चौधरी
पटना-नगरम्, ०२ मईमासः (हि.स.)। बिहार-राज्यस्य मुख्यमन्त्री सम्राट-चौधरी विधानसभायां स्पष्टतया पुनरुक्तवान् यत् राज्ये अपराध-भ्रष्टाचार-साम्प्रदायिकतायाः विरुद्धं ‘शून्य-सहनशीलता’ इति नीति: पूर्ववत् निरन्तरं प्रवर्तिष्यते। एतद्वचनं राज्यस्य उपमुख्यम
अपराध-भ्रष्टाचार-साम्प्रदायिकतां प्रति ‘शून्य-सहनशीलता-नीतिः’ निरन्तरं प्रवर्तिष्यते - विजय-चौधरी


पटना-नगरम्, ०२ मईमासः (हि.स.)। बिहार-राज्यस्य मुख्यमन्त्री सम्राट-चौधरी विधानसभायां स्पष्टतया पुनरुक्तवान् यत् राज्ये अपराध-भ्रष्टाचार-साम्प्रदायिकतायाः विरुद्धं ‘शून्य-सहनशीलता’ इति नीति: पूर्ववत् निरन्तरं प्रवर्तिष्यते। एतद्वचनं राज्यस्य उपमुख्यमन्त्री विजय-कुमार-चौधरी शनिवासरे अवदत्।

उपमुख्यमन्त्री निर्गते वक्तव्ये अवदत् यत् राज्यस्य अल्पसंख्यक-समुदायः अस्याः नीत्याः व्यापक-निहितार्थं सम्यक् अवगच्छेत्। तेन उक्तं यत् सम्पूर्णे देशे एषा धारणा विद्यमाना अस्ति यत् अल्पसंख्यकानां हितार्थं अधिकतमं कार्यं बिहार-राज्ये नीतिश-कुमारस्य नेतृत्वे राष्ट्रीय-जनतान्त्रिक-गठबन्धन-सर्वकारस्य काले अभवत्, यस्मिन् भारतीय-जनता-पक्षस्य अपि सकारात्मक-योगदानम् आसीत्। अतः कस्यापि अनावश्यक-भयस्य वा भ्रमस्य स्थितौ स्थितुं आवश्यकता नास्ति।

तेन विपक्षं प्रति आक्षेपः कृतः यत् विपक्षीय-दलानि अल्पसंख्यकानां मध्ये भय-भ्रमयोः वातावरणं निर्माय तेषां भावनानां राजनैतिक-लाभं प्राप्तुं यत्नं कुर्वन्ति। तेन उक्तं यत् गत-वर्षेषु बहुषु विषयेषु विपक्षेन अनावश्यक-विवादाः उत्पन्नाः, किन्तु अधुना तेषां मन्तव्यं प्रकाशं प्राप्तम्।

उपमुख्यमन्त्री उदाहरणरूपेण अवदत् यत् नागरिकता-संशोधन-अधिनियमस्य विषयः वा, वक्फ-संशोधन-अधिनियमः वा, अथवा एसआईआर-संबद्धः विषयः—एतेषु सर्वेषु विपक्षेन एतानि अल्पसंख्यक-विरोधिनि इति दर्शयित्वा भ्रमः प्रसारितः। तथापि अधुना वास्तविक-स्थिति: स्पष्टा जाता।

तेन उक्तं यत् बिहार-राज्ये कस्यापि अल्पसंख्यकस्य नागरिकता न अपहृता, न च कस्यचित् नाम मतदाता-सूच्याः अपसारितम्, न च कस्यापि वक्फ-सम्पत्तेः अधिग्रहणं कृतम्।

उपमुख्यमन्त्री विश्वासं व्यक्तवान् यत् यथा नीतिश-कुमारस्य नेतृत्वे अल्पसंख्यक-समुदायः स्वं सुरक्षितम् अनुभूतवान्, तथैव सम्राट-चौधरीस्य नेतृत्वे अपि तेषां सुरक्षा अधिकाराश्च सुनिश्चिताः भविष्यन्ति। तेन राज्यस्य अल्पसंख्यकान् प्रति आह्वानं कृतं यत् ते निश्चिन्ताः स्युः तथा राजग-सर्वकारे विश्वासं धारयन्तु।

हिन्दुस्थान समाचार / अंशु गुप्ता