मईमासस्य संभावितोष्णतया खिन्नैर्न भवितव्यम् : जितेंद्र सिंहः
नवदिल्ली, 02 मईमासः (हि.स.)। केन्द्रीय विज्ञान-प्रौद्योगिकी तथा पृथ्वी-विज्ञान राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेंद्रसिंहः मईमासे संभाव्यमानस्य अत्युष्णतायाः लू-प्रवाहस्य च विषये जनान् प्रति न भीतिं कर्तुं, अपि तु सतर्कतां पालनं कर्तुं आह्व
डॉ. केन्द्रीय मंत्री डॉ. जितेन्द्र सिंह


नवदिल्ली, 02 मईमासः (हि.स.)।

केन्द्रीय विज्ञान-प्रौद्योगिकी तथा पृथ्वी-विज्ञान राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेंद्रसिंहः मईमासे संभाव्यमानस्य अत्युष्णतायाः लू-प्रवाहस्य च विषये जनान् प्रति न भीतिं कर्तुं, अपि तु सतर्कतां पालनं कर्तुं आह्वानं कृतवान्। तेन उक्तं यत् स्थिति: नियन्त्रणमध्ये अस्ति। यथावत् मौसमपूर्वानुमानस्य अवगमनेन, प्रतिदिनं साधारणसावधानताः आचरित्वा च प्रभावः न्यूनीकर्तुं शक्यते।

शनिवासरे स्वकार्यालये पत्रकारैः सह संवादे सः अवदत् यत् भारतवातावरणविज्ञानविभागसंस्थायाः पूर्वानुमानानुसारं देशस्य केषुचित् भागेषु सामान्यतः अधिकं तापमानं तथा उष्णतरङ्गस्थितिः (हीटवेव) भवितुम् अर्हति, किन्तु एषा स्थिति: सर्वत्र समानरूपेण न भविष्यति। समये पूर्वतयारी, तथा आईएमडीदत्तानां समयानुसारं उपदेशानां पालनं कृत्वा एषा अवस्था सम्यक् नियन्त्रयितुं शक्यते।

डॉ. सिंह जनान् प्रति उपदिष्टवान् यत् ते पर्याप्तं जलं पिबेयुः, मध्याह्नस्य तीव्रसूर्यतापात् दूरं तिष्ठेयुः, बालकानां वृद्धानां बहिःकार्यरतजनानां च विशेषतया संरक्षणं कुर्वन्तु। तेन उक्तं यत् मौसमविभागस्य नियमित-समाचारानां प्रति दृष्टिः आवश्यकम् अस्ति।

कृषिक्षेत्रे विषये सः अवदत् यत् उत्तर-उत्तरपश्चिम-भारते रबी-शस्यस्य कटनार्थं अनुकूलाः परिस्थितयः सन्ति, यद्यपि केषुचित् प्रदेशेषु अत्युष्णतायाः प्रभावः धान-मकई-दलहनादिषु शस्येषु दृश्यते। कृषकाः प्रातःसायं क्षेत्रेषु कार्यं कुर्वन्तु, अल्पसिञ्चनं च कुर्वन्तु इति परामर्शः दत्तः।

सः आश्वासनं दत्तवान् यत् जल-विद्युत्-आदीनां आवश्यकसुविधानां पर्याप्तव्यवस्था क्रियते, येन जनाः उष्णतां सम्यक् सहन्तु। मौसमविभागस्य अनुसारं ८–१४ मयि तथा २२–२८ मईमध्ये उत्तरपश्चिम-मध्य-पश्चिम-भारतेषु पूर्वतटीयप्रदेशेषु च तापमानवृद्धिः संभाव्यते। अपरतः १–७ मयि तथा १५–२१ मयि मध्ये वर्षा-मेघयोः कारणात् तापमानं सामान्यं तस्मात् अपि न्यूनं वा भवितुम् अर्हति।

हिमालयपरिसरे, ओडिशा, आन्ध्रप्रदेश, तमिलनाडु तटीयप्रदेशेषु, गुजरात-महाराष्ट्रयोः च सामान्यात् द्वित्रदिनाधिकं उष्णतरङ्गस्थिति: अपेक्ष्यते। अन्येषु केषुचित् प्रदेशेषु रात्रौ अपि उच्चतापमानं भवेत्, येन आर्द्रता वर्धिष्यते।

-------------

हिन्दुस्थान समाचार