जम्मूश्रीनगरयोः वंदे भारत एक्सप्रेसयानस्य जातः शुभारंभः
जम्मूः, 02 मईमासः (हि.स.)।शनिवासरे जम्मू तथा श्रीनगर नगरयोः मध्ये वन्दे भारत एक्सप्रेस नामिका रेलयानसेवा शुभारब्धा। यात्रिकाः एनं क्षणं ऐतिहासिकम् इति निरूप्य उक्तवन्तः यत् अस्याः सेवायाः माध्यमेन क्षेत्रस्य जनानां आर्थिकलाभः अपि भविष्यति। केन्द्र
जम्मूश्रीनगरयोः वंदे भारत एक्सप्रेसयानस्य जातः शुभारंभः


जम्मूः, 02 मईमासः (हि.स.)।शनिवासरे जम्मू तथा श्रीनगर नगरयोः मध्ये वन्दे भारत एक्सप्रेस नामिका रेलयानसेवा शुभारब्धा। यात्रिकाः एनं क्षणं ऐतिहासिकम् इति निरूप्य उक्तवन्तः यत् अस्याः सेवायाः माध्यमेन क्षेत्रस्य जनानां आर्थिकलाभः अपि भविष्यति।

केन्द्रीय रेलमन्त्री अश्विनी वैष्णव जम्मू तवी रेलस्थानकात् श्रीनगर कटरा वन्दे भारत एक्सप्रेस रेलयानं हरितध्वजेन प्रेषितवान्। कठनसुरक्षाव्यवस्थायाः मध्ये एषा सेवा आरब्धा।

आशा अस्ति यत् एषा रेलसेवा जम्मू प्रदेशस्य कश्मीर घाट्याः च मध्ये यात्रां बहुधा सुलभां करिष्यति।

यात्रिकाः अस्य निर्णयस्य स्वागतं कृत्वा उक्तवन्तः यत् एषा सेवा उत्तमसंपर्कं प्रदास्यति, यात्राकालस्य न्यूनीकरणं करिष्यति, तथा क्षेत्रस्य आर्थिकविकासस्य दिशि महत्त्वपूर्णं पादं भविष्यति।

यात्रिकाः स्वानुभवान् सह कृत्वा प्रधानमन्त्रिणः नरेन्द्रमोदिनो रेलमन्त्रिणः अश्विनी वैष्णवस्य प्रयासानां कृते कृतज्ञतां व्यक्तवन्तः।

ते उक्तवन्तः यद् “अयं खलु ऐतिहासिकः क्षणः। प्रधानमन्त्रिणः मोदी महोदयस्य प्रयासैः तथा केन्द्रीय मन्त्रिणः अश्विनी वैष्णव महोदयस्य उद्घाटनेन एषा रेलसेवा अद्य प्रभृति नियमितरूपेण प्रवर्तते, वयं ताभ्यां प्रति कृतज्ञतां व्यक्तयामः। अनेन रेलयानेन बहवः परिवर्तनाः भविष्यन्ति, तथा जम्मू कश्मीर प्रदेशस्य जनाः आर्थिकरूपेण अपि लाभं प्राप्स्यन्ति।”

हिन्दुस्थान समाचार