Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०२ मईमास: (हि.स.)। वाणिज्य-उद्योग-मन्त्रालयस्य अधीनस्थस्य उद्योग-आन्तरिक-व्यापार-सम्वर्धन-विभागस्य (डीपीआईआईटी) राष्ट्रिय-निवेश-प्रोत्साहन-सुविधा-एजेन्सी इन्वेस्ट-इण्डिया इत्यस्य नव्येषु निवेश-विवरणेषु मध्यप्रदेशः रोजगार-सृजनस्य विषये देशे अग्रणी-राज्यरूपेण उद्भूतः अस्ति। एषा सूचना भारत-सर्वकारेण प्रकाशितायाम् आधिकारिक-सूचनायां प्रकाशिता, या देशे निवेशस्य वर्धमानं क्षेत्रं तथा राज्यानां भूमिकां रेखाङ्कयति।
जनसम्पर्क-अधिकारिणी बबीता-मिश्रा शनिवासरे अवदत् यत् राष्ट्रिय-प्रतिवेदने स्पष्टतया घोषितं यत् रोजगार-सृजने मध्यप्रदेशः समग्रदेशे आन्ध्रप्रदेशं, राजस्थानं, तेलङ्गानां, महाराष्ट्रं च अतिक्रम्य शीर्षस्थाने स्थितः आसीत्। एषा उपलब्धिः राज्ये विकसितस्य निवेश-अनुकूल-पर्यावरणस्य, अधोसंरचना-विस्तारस्य, उद्योगोन्मुख-नीतीनां च परिणामः इति मन्यते।
तया उक्तं यत् प्रदेशस्य मुख्यमन्त्री-डॉ.मोहन-यादवस्य नेतृत्वे वर्षः-२०२५ “रोजगार-उद्योग-वर्ष” इति घोषितः। मध्यप्रदेशे निवेश-सम्वर्धनाय प्राधान्यं दत्तम् अस्ति। देशे विदेशे च आयोजितेषु इन्वेस्टर-मीट्, शोभायात्रा, संवाद-कार्यक्रमाणां च माध्यमेन निवेशकैः सह प्रत्यक्ष-संपर्कः स्थापितः। सहैव रीजनल-इण्डस्ट्री-कॉन्क्लेव् इत्यस्य श्रृङ्खलया प्रदेशस्य विविधेषु क्षेत्रेषु औद्योगिक-क्रियाकलापानां विस्तारः सुनिश्चितः कृतः। इन्वेस्ट-इण्डिया इत्यस्य एतानि विवरणानि अस्य प्रमाणं ददति यत् मुख्यमन्त्रिणः डॉ.यादवस्य समग्र-प्रयत्नैः मध्यप्रदेशः न केवलं निवेश-आकर्षणे समर्थः, अपि तु तं प्रभावी-रूपेण रोजगार-सृजने परिवर्तयितुम् अपि सक्षमः अस्ति। राज्यं अधुना देशस्य उदयमान-औद्योगिक-रोजगार-केन्द्ररूपेण स्व-परिचयं सुदृढं करोतिः।
मुख्यमन्त्रिणः डॉ.यादवस्य विशेष-केन्द्रणं निवेशस्य रोजगारे परिवर्तने आसीत्। अस्यैव क्रमस्य अन्तर्गतं कौशल-उन्नयनाय विशेष-ध्यानं दत्त्वा उद्योगानां आवश्यकतानुसारं आईटीआई तथा पॉलिटेक्निक-संस्थासु प्रशिक्षणं सुदृढीक्रियते। विद्यार्थिनां प्लेसमेंट् विषये विशेष-प्रयत्नः क्रियते, येन यूनां प्रत्यक्षं रोजगार-संयोगे साहाय्यं भवति। रोजगार-मेलाः तथा “युवा-संगम” इत्यादीनि आयोजनानि अपि बहुसंख्यक-यूनां अवसरान् प्रददति।
जनसम्पर्क-अधिकारिणी अवदत् यत् वित्तीय-वर्षे २०२५-२६ अन्तर्गतं इन्वेस्ट-इण्डिया ६.१ बिलियन-अमेरिकी-डॉलर-मूल्याधिकानां ६० निवेश-परियोजनानां कार्यान्वयने साहाय्यं कृतवती। एताः परियोजनाः १४ राज्येषु विस्तृताः सन्ति, यासां माध्यमेन ३१-सहस्राधिक-सम्भाव्य-रोजगाराः सृज्यन्ते इति अनुमानः अस्ति। अस्मिन् विस्तीर्णे राष्ट्रिय-परिदृश्ये मध्यप्रदेशः रोजगार-सृजन-क्षेत्रे शीर्षस्थानं प्राप्य स्वस्य सुदृढां उपस्थितिं दर्शितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता