Enter your Email Address to subscribe to our newsletters

नवदेहली, 02 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे लेहनगरे भगवान् बुद्धस्य पवित्र-अवशेषाणां प्रदर्शिनी-उद्घाटने प्रसन्नतां व्यक्तवान्। अस्याः उद्घाटनं शुक्रवासरे बुद्धपूर्णिमा-अवसरे अभवत्। प्रधानमन्त्री सामाजिक-पटले एक्स इत्यत्र कार्यक्रमस्य चित्राणि साझां कुर्वन् अकथयत् यत् एते पवित्राः अवशेषाः कपिलवस्तुस्थित-पिपरहवा-स्तूपेन सह सम्बद्धाः सन्ति, ये १९ शताब्द्याः अन्तिमवर्षेषु उत्खननकाले प्राप्ताः आसन्। एते अवशेषाः भगवतः गौतमबुद्धस्य शिक्षाणां प्रतीकाः सन्ति।
तेन सूचितं यत् एषा प्रदर्शिनी १४ मई दिनाङ्कं यावत् प्रचलति तथा च आगामिदिनेषु एषा जांस्कर-क्षेत्रे अपि नेष्यते। प्रधानमन्त्रिणः अनुसारम् एतत् आयोजनं लद्दाखस्य जनेभ्यः श्रद्धाञ्जलिम् अर्पयितुम् एकं महत्वपूर्णम् अवसरं प्रदास्यति। प्रधानमन्त्री अवदत् यत् अनेन उपक्रमेण लद्दाख-क्षेत्रे आध्यात्मिक-सांस्कृतिक-पर्यटनस्य च संवर्धनं भविष्यति।
प्रधानमन्त्रिणा लिखितं, ”एतत् अत्यन्तं हर्षस्य विषयः अस्ति यत् ह्यः बुद्धपूर्णिमा-अवसरे लेहनगरे तथागतस्य पवित्र-अवशेषाणां प्रदर्शिनी उद्घाटिता। एते पूजनीयाः अवशेषाः कपिलवस्तु-नगरस्य पिपरहवा-स्तूपेन सम्बद्धाः सन्ति तथा च १९ शताब्द्याः अन्तिमवर्षेषु उत्खनन-समये लब्धाः आसन्। एते भगवान् बुद्धस्य शाश्वत-शिक्षाणां प्रतीकाः सन्ति। एषा प्रदर्शिनी १४ मई पर्यन्तं भविष्यति। आगामिषु दिनेषु एषा ज़ांस्कर-क्षेत्रम् अपि गमिष्यति। एषा घटना सम्पूर्ण-लद्दाखस्य जनेभ्यः स्व-श्रद्धासुमनम् अर्पयितुं एकम् अमूल्यम् अवसरं प्रदास्यति। अनेन लद्दाखस्य आध्यात्मिक-सांस्कृतिक-पर्यटनं च अपि बलं प्राप्स्यति।”
-----------
हिन्दुस्थान समाचार