नेपाले भारतस्य त्रयाणां प्रमुख धर्मगुरूणां आगमनं, विभिन्नेषु कार्यक्रमेषु करिष्यते सम्मेलनम्
काठमांडूः, 02 मईमासः (हि.स.)। आगामिषु मासेषु नेपालदेशे भारतस्य त्रयः प्रमुखाः धर्मगुरवः आगमनं करिष्यन्ति। काठमांडौ, विराटनगरे पशुपतिनाथमंदिरे च आयोज्यमानेषु विविधेषु धार्मिक-सांस्कृतिक-कार्यक्रमेषु तेषां विशेषसहभागिता भविष्यति। आयोजकैः उक्तं यत्
नेपाल आने वाले भारत के तीन धर्मगुरु


काठमांडूः, 02 मईमासः (हि.स.)।

आगामिषु मासेषु नेपालदेशे भारतस्य त्रयः प्रमुखाः धर्मगुरवः आगमनं करिष्यन्ति। काठमांडौ, विराटनगरे पशुपतिनाथमंदिरे च आयोज्यमानेषु विविधेषु धार्मिक-सांस्कृतिक-कार्यक्रमेषु तेषां विशेषसहभागिता भविष्यति। आयोजकैः उक्तं यत् एतेषु कार्यक्रमेषु बहुसंख्यया श्रद्धालवः धार्मिकानुयायिनः च समागमिष्यन्ति।

प्रथमं स्वामी गोविंददेव गिरी महाराजः, यः श्रीराम जन्मभूमि तीर्थ क्षेत्र ट्रस्ट इत्यस्य कोषाध्यक्षः तथा गीता-परिवारस्य संस्थापकः अस्ति, नेपालं आगमिष्यति। सः ९ मई दिने काठमांडौ-नगरे आयोजिते जनकल्याण-प्रतिष्ठानस्य नवविंशतितमे (२९) वार्षिकोत्सवे मुख्य-अतिथिरूपेण सहभागी भविष्यति। विश्व हिन्दू परिषद नेपाल अन्तर्गतं सञ्चालितं जनकल्याण-प्रतिष्ठानं नेपालदेशे जनजातीय-छात्राणां कृते “आमा को माया छात्रावास” इत्यस्य संचालनं करोति। तदन्यत् संस्थया प्रायः द्वादशसहस्र (१२,०००) एकल-विद्यालयानां सञ्चालनस्य योजना अपि निर्दिष्टा अस्ति।

अनन्तरं श्रृंगेरी शारदापीठस्य शंकराचार्यः जगद्गुरुः विधुशेखरभारतीमहाराजः २२ मईतः २८ मई पर्यन्तं नेपाल-यात्रां करिष्यति। श्रृंगेरी शारदापीठस्य अनुसारं सः काठमांडौ-नगरे आयोज्यमानायां “धर्म-विजय-यात्रायां” सहभागिता करिष्यति। नेपाल-प्रवासकाले शंकराचार्यः पशुपतिनाथ-मन्दिरे विशेष-यज्ञे भागं गृहीत्वा विविधेषु धार्मिक-अनुष्ठानेषु अपि सहभागी भविष्यति।

तथैव भारतस्य महतः जूना अखाड़ा इत्यस्य आचार्य-महामण्डलेश्वरः स्वामी अवधेशानंद गिरी महाराजः जून-मासे नेपालं आगमिष्यति। हिन्दू स्वयंसेवक संघ इत्यस्य निमन्त्रणेन सः १९ जून दिने काठमांडौ-नगरे आयोज्यमानायां विद्वत्-गोष्ठ्यां प्रवचनं दास्यति। अनन्तरं २० जून दिने विराटनगर-नगरे हिन्दू-स्वयंसेवक-संघस्य कोशी-सम्भाग-कार्यालयस्य उद्घाटन-कार्यक्रमे मुख्यातिथिरूपेण सहभागी भविष्यति।

अतिरिक्ततया २१ जून दिने स्वामी-अवधेशानन्द-गिरी-महाराजस्य पशुपतिनाथ मंदिर दर्शनं तथा जीवित-देव्याः कुमारी-पूजनं कर्तुं कार्यक्रमः निर्धारितः अस्ति।

------------

हिन्दुस्थान समाचार