ओडिशा - दशम-कक्ष्यायाः परिणामः घोषितः, 95.33 प्रतिशतं छात्राः उत्तीर्णाः
भुवनेश्वरम्, 02 मईमासः (हि.स.)।माध्यमिक-शिक्षा-परिषद् ओडिशा इत्यनेन अद्य वर्ष 2026 इत्यस्य वार्षिक-हाई-स्कूल-प्रमाणपत्र-परीक्षायाः परिणामः घोषितः। अस्मिन् वर्षे आहत्य-उत्तीर्ण-प्रतिशतं 95.33 अङ्कितम् अस्ति। कटकनगरे परिषद्-कार्यालय आयोजित-पत्रकार-गो
ओडिशा: कक्षा 10वीं के परिणाम घोषित


भुवनेश्वरम्, 02 मईमासः (हि.स.)।माध्यमिक-शिक्षा-परिषद् ओडिशा इत्यनेन अद्य वर्ष 2026 इत्यस्य वार्षिक-हाई-स्कूल-प्रमाणपत्र-परीक्षायाः परिणामः घोषितः। अस्मिन् वर्षे आहत्य-उत्तीर्ण-प्रतिशतं 95.33 अङ्कितम् अस्ति। कटकनगरे परिषद्-कार्यालय आयोजित-पत्रकार-गोष्ठ्यां विद्यालय-जनशिक्षा-मन्त्रिणः नित्यानन्द-गोण्डस्य उपस्थितौ परिणामानां घोषणा कृता। अस्मिन् वर्षे एच.एस.सी.-परीक्षा-2026 निमित्तं आहत्य 5,44,670 छात्राः आवेदन-पत्राणि पूरितवन्तः, येषु 5,36,306 छात्राः परीक्षायां सम्मिलिताः अभवन्, तथा च 8,364 छात्राः अनुपस्थिताः आसन्। नियमित-श्रेण्यां आहत्य 5,19,251 छात्राः सफलाः घोषिताः, येषु 2,56,099 छात्राः (बालकाः) तथा 2,63,152 छात्राः (बालिकाः) सम्मिलिताः सन्ति।

​जनपदवार-प्रदर्शने गजपति-जनपदः 99.31 प्रतिशत-उत्तीर्णतायाः सह राज्ये शीर्षस्थाने अस्ति, यदा तु केन्दुझर-जनपदः 94.35 प्रतिशत-सह न्यूनतमे स्थाने अस्ति। श्रेणीवार परिणामानुसारं 2,456 छात्राः A1 श्रेण्यां, 15,681 छात्राः A2 श्रेण्यां, 43,565 छात्राः B1 श्रेण्यां तथा 86,103 छात्राः B2 श्रेण्यां सफलतां प्राप्तवन्तः। एवं च 1,29,813 छात्राः C श्रेण्यां, 1,46,152 छात्राः D श्रेण्यां तथा 95,481 छात्राः E श्रेण्याम् उत्तीर्णाः अभवन्। एक्स-रेगुलर-श्रेण्यां 1,433 छात्रेषु 217 छात्राः सफलाः अभवन्, येन अस्याः श्रेण्याः उत्तीर्णता-प्रतिशतं 14.16 अभवत्।

​अस्मिन् वर्षे राज्यस्य 3,082 परीक्षा-केन्द्रेषु आहत्य 5,61,979 छात्राः परीक्षां दत्तवन्तः, या परीक्षा 19 फरवरीतः 2 मार्च 2026 पर्यन्तम् आयोजिता आसीत्। मण्डलेन सूचितं यत् अद्य सायङ्काले षड्वादने अधिकृत-जालपुटे (www.bseodisha.nic.in) परिणामाः उपलब्धाः भविष्यन्ति। अस्मिन् वर्षे प्रथमवारं सफलछात्राणां प्रमाणपत्राणि ओडिया-आङ्ग्ल-भाषाद्वये निर्गमिष्यन्ति। विगतवर्षे 2025 मध्ये उत्तीर्णता-प्रतिशतं 96.7 आसीत्। अस्मिन् वर्षे 3,310 विद्यालयाः शतप्रतिशतं परिणामं प्राप्तवन्तः। अपि च, मध्यमा-परीक्षायां 2,931 छात्राः उत्तीर्णाः (87.3%), राज्य-मुक्त-विद्यालय-परीक्षायां च 7,405 छात्राः सफलाः (59.82%) अभवन्।

---------------

हिन्दुस्थान समाचार