गीतकारः प्रसून जोशी जातः प्रसार भारत्याः अध्यक्षः
नवदिल्ली, 02 मईमासः (हि.स.)। केन्द्रीय सर्वकारेण सिद्धः गीतकारः लेखकः सञ्चारविशेषज्ञः च प्रसून जोशी इत्यस्य प्रसार भारती संस्थायाः अध्यक्षत्वे नियुक्तिः कृता। सूचना प्रसारण मन्त्रालयेन शनिवासरे प्रकाशितेन वक्तव्येन एषा सूचना प्रदत्ता। उल्लेखनीयं
प्रसून जोशी, प्रसार भारती के अध्यक्ष


नवदिल्ली, 02 मईमासः (हि.स.)।

केन्द्रीय सर्वकारेण सिद्धः गीतकारः लेखकः सञ्चारविशेषज्ञः च प्रसून जोशी इत्यस्य प्रसार भारती संस्थायाः अध्यक्षत्वे नियुक्तिः कृता।

सूचना प्रसारण मन्त्रालयेन शनिवासरे प्रकाशितेन वक्तव्येन एषा सूचना प्रदत्ता। उल्लेखनीयं यत् प्रसार भारत्याः पूर्वाध्यक्षः नवनीत सहगल गतचतुर्थदिसम्बरे स्वपदात् त्यागपत्रं दत्तवान् आसीत्, ततः आरभ्य एतत् पदं रिक्तम् आसीत्।

रेल सूचना प्रसारण इलैक्ट्रॉनिक्स सूचना प्रौद्योगिकी च मन्त्री अश्विनी वैष्णव प्रसून जोशीं प्रति अभिनन्दनं कृतवान्। तेन उक्तं यत् “प्रसून जोशी साहित्य विज्ञापन सिनेमा क्षेत्रेषु स्वीयेन योगदानेन प्रसिद्धः अस्ति। सः विलक्षणः सृजनात्मक व्यक्तित्वः अस्ति, यस्य विज्ञापन साहित्य कला सिनेमा क्षेत्रेषु वैश्विकख्यातिः अस्ति, तथापि तस्य हृदयम् भारताय एव धड़कति। तस्य शब्देषु अस्माकं भूमेः सुगन्धः निहितः अस्ति, तथा तस्य दृष्टिः अस्माकं संस्कृतेः शाश्वतसारं प्रतिबिम्बयति। तस्य नेतृत्वे प्रसार भारती नूतनां ऊर्जां उद्देश्यम् सृजनात्मकदृष्टिं च प्राप्स्यति।”

अस्याः नियुक्तेः पूर्वं प्रसून जोशी अगस्त २०१७ आरभ्य केन्द्रीय चलचित्र प्रमाणन मण्डलस्य अध्यक्षः आसीत्, यत्र सः चलचित्र उद्योगस्य सर्वैः हितधारकैः सह सम्बद्धः सन् चलचित्र प्रमाणन प्रक्रियाः सुदृढीकर्तुं योगदानं कृतवान्।

ततः पूर्वं सः मैक्कैन वर्ल्ड ग्रुप इंडिया संस्थायाः मुख्यकार्यकारी अधिकारी आसीत्, तथा मैक्कैन वर्ल्ड ग्रुप एशिया पैसिफिक संस्थायाः अध्यक्षः अपि आसीत्। सः २०१६ वर्षात् आरभ्य इन्दिरा गांधी राष्ट्रिय कला केन्द्रस्य न्यासेषु एकः सदस्यः अस्ति।

उल्लेखनीयं यत् प्रसार भारती भारतस्य सार्वजनिकसेवा प्रसारकः अस्ति, यः आकाशवाणी तथा दूरदर्शन इत्येतयोः माध्यमेन देशव्यापि समाचार शिक्षा मनोरञ्जनसम्बद्धाः सेवाः प्रददाति।

---------------

हिन्दुस्थान समाचार