केन्द्रीयमन्त्री किरण-रिजिजू मुख्यमन्त्रिणा सह शिष्टाचार-साक्षात्कारं कृतवान्
गङ्गटोक-नगरम्, ०२ मईमासः (हि.स.)। सिक्किम-राज्यस्य प्रवासे स्थितः केन्द्रीय-संसदीय-अल्पसंख्यक-कार्य-मन्त्री किरण-रिजिजू शनिवासरे मुख्यमन्त्रिणा प्रेमसिंहतमांगेन सह शिष्टाचार-साक्षात्कारं कृतवान्। तेन सह मन्त्री साम्डुप-लेप्चा तथा प्रसिद्ध-गायकः मोह
Union minister rijiju me CM PS Tamang


गङ्गटोक-नगरम्, ०२ मईमासः (हि.स.)। सिक्किम-राज्यस्य प्रवासे स्थितः केन्द्रीय-संसदीय-अल्पसंख्यक-कार्य-मन्त्री किरण-रिजिजू शनिवासरे मुख्यमन्त्रिणा प्रेमसिंहतमांगेन सह शिष्टाचार-साक्षात्कारं कृतवान्। तेन सह मन्त्री साम्डुप-लेप्चा तथा प्रसिद्ध-गायकः मोहितचौहान: अपि उपस्थितौ आस्ताम्।

मुख्यमन्त्रिणा शनिवासरे एक्स इति सामाजिक-माध्यम-मञ्चे स्वस्य आधिकारिक-निवासे केन्द्रीयमन्त्री किरण-रिजिजू इत्यनेन सह मिलित्वा हर्षः व्यक्तः। सभायां मुख्यमन्त्रिणा रिजिजोः उत्तर-सिक्किम-यात्रायाः विषये सूचना प्राप्ता तथा राज्यसम्बद्धेषु विभिन्नेषु महत्त्वपूर्णेषु विषयेषु सार्थकी चर्चा अभवत्।

तेन सिक्किम तथा तस्य जनानां प्रगत्यै, विकासाय, कल्याणाय च निरन्तरं समर्थनं रुचिः च दर्शितवन्तं केन्द्रीयमन्त्रिणं रिजिजुं प्रति हार्दिकं आभारं व्यक्तम्।

उल्लेखनीयम् यत् केन्द्रीयमन्त्री किरण-रिजिजू अधुना सिक्किम-राज्यस्य प्रवासे वर्तते। सः उत्तर-सिक्किम-यात्रायाः अनन्तरं राजधानीं पुनः आगतः।

हिन्दुस्थान समाचार / अंशु गुप्ता