Enter your Email Address to subscribe to our newsletters

जयपुर-नगरम्, ०२ मे-मासः (हि.स.)। आईपीएल-२०२६ स्पर्धायां दिल्ली-कैपिटल्स-दलेन शुक्रवारे उच्च-स्कोरिंग-स्पर्धायां राजस्थान-रॉयल्स-दलं सप्त-विकेट्-इत्येतैः पराजितं कृत्वा विजय-मार्गे पुनरागमनं कृतम्। सवाई मानसिंह-स्टेडियम-मध्ये सम्पन्नेऽस्यां स्पर्धायां दिल्ली-दलेन २२५ धावनानां लक्ष्यं ३ विकेट-हान्या सह सफलतया प्राप्तम्।
राजस्थान-दलस्य विशाल-धावनानि (225/20 ओवर)
टॉस-विजयेन प्रथमं बल्लेबाजीं कृत्वा राजस्थान-दलेन २० ओवरमध्ये २२५ धावनानि अर्जितानि। आरम्भे एव वैभव-सूर्यवंशी (४) यशस्वी-जायसवालः (६) च शीघ्रं आउट-इत्येतौ अभवताम्।
ततः नायकः रियान-परागः उत्कृष्टं प्रदर्शनं कृत्वा ५० कन्दुकेषु ९० धावनानां महत्वपूर्णं पर्यायं कृतवान्। ध्रुव-जुरेलः अपि ३० कन्दुकेषु ४२ धावनानि कृत्वा सहायकः अभवत्। उभयोः मध्ये १०२ धावनानां महती सहभागिता अभवत्।
अन्ते डोनोवन-फरेरा (१४ कन्दुकेषु ४७ धावनानि, ६ षट्काः, २ चतुष्काः) इत्यस्य द्रुत-प्रहारैः राजस्थान-दलं विशालं धावनाङ्कं स्थापितम्।
दिल्ली-दलेन मिचेल-स्टार्कः ४ ओवरमध्ये ४० धावनानि दत्त्वा ३ विकेट् प्राप्तवान्, काइल-जैमिसनः, अक्षर-पटेलः तथा टी-नटराजनः च १-१ विकेट् प्राप्तवन्तः।
दिल्ली-दलस्य सशक्त-उत्तरम् (228/3)
लक्ष्यस्य अनुगमने दिल्ली-दलेन सम्यक्-आरम्भः कृतः। पथुम-निसांका (६२ धावनानि, ३३ कन्दुकानि) तथा के.एल.राहुलः (७५ धावनानि, ४० कन्दुकानि) आक्रामक-शैलीं प्रदर्श्य दलं सुदृढां स्थितिं नीतवन्तौ।
पावरप्ले-अन्ते दिल्ली ७० धावनानि अविना-हानिः कृतवती।
निसांकस्य निर्गमनानन्तरं राहुलः १५ ओवरपर्यन्तं पर्यायं सम्यक् संचालितवान्। ततः नीतीश-राणा (१७ कन्दुकेषु ३३ धावनानि) अपि महत्त्वपूर्णं योगदानं दत्तवान्।
अन्ते ट्रिस्टन-स्टब्सः (नाबादः १८) तथा आशुतोष-शर्मा (नाबाद- २५) संयमेन पर्यायं समाप्य दलं विजयेन संयोजितवन्तौ।
राजस्थान-दलेन तुषार-देशपाण्डे, जोफ्रा-आर्चरः तथा रविन्द्र-जडेजा इत्येते १-१ विकेट् प्राप्तवन्तः।
परिणामः
दिल्ली-कैपिटल्स-दलेन ७ विकेट-इत्येतैः विजयः प्राप्तः, तथा च तस्याः लगातार-त्रय-पराजय-श्रृंखला समाप्ता। एषः विजयः तस्याः अंकतालिकायां पुनरागमनस्य सूचकः अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता