गोरखपुरस्य जिलाविद्यालयनिरिक्षकस्य आकस्मिकं निधनम्
गोरखपुर-नगरम्, ०२ मईमासः (हि.स.)। उत्तर-प्रदेशस्य गोरखपुर-जनपदे नियुक्तः जनपद-विद्यालय-निरीक्षकः डॉ.अमरकान्त-सिंहः शनिवासरे मध्याह्ने प्रायः द्वादश-वादने लखनऊ-नगरे उपचार-काल एव आकस्मिकं निधनं प्राप्तवान्। तस्य निधनस्य समाचारं श्रुत्वा गोरखपुर-जनपदस
डीआईओएस गोरखपुर का आकस्मिक निधन


गोरखपुर-नगरम्, ०२ मईमासः (हि.स.)। उत्तर-प्रदेशस्य गोरखपुर-जनपदे नियुक्तः जनपद-विद्यालय-निरीक्षकः डॉ.अमरकान्त-सिंहः शनिवासरे मध्याह्ने प्रायः द्वादश-वादने लखनऊ-नगरे उपचार-काल एव आकस्मिकं निधनं प्राप्तवान्। तस्य निधनस्य समाचारं श्रुत्वा गोरखपुर-जनपदस्य शिक्षा-विभागे शोक-तरङ्गः प्रसृतः।

डॉ.सिंहस्य असामयिक-निधनेन विभागस्य अधिकारिणः, कर्मचारिणः, शिक्षकाः शिक्षणेत्तर-कर्मचारीणः च स्तब्धाः अभवन् तथा च एतत् अपूरणीय-हानिरिति मन्यन्ते। जनपद-विद्यालय-निरीक्षक-कार्यालये, गोरखपुर-परिसरे शोक-सभायाः आयोजनं कृतम्। तत्र उपस्थितैः सर्वैः अधिकारिभिः कर्मचारीभिः च दिवङ्गत-आत्मनः शान्त्यर्थं श्रद्धाञ्जलिः अर्पिता। सहैव ईश्वरात् प्रार्थना कृता यत् सः शोकाकुल-परिजनेभ्यः अस्य दुःखस्य सहनाय शक्तिं प्रददातु।

एषा सूचना प्रभारी-जनपद-विद्यालय-निरीक्षकेन प्रदत्ता।

हिन्दुस्थान समाचार / अंशु गुप्ता