Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 02 मईमासः (हि.स.)। उत्तराखण्डराज्यस्य कृषिमन्त्री गणेशजोशी सद्यःसमये जातया ओलावृष्ट्या कृषकाणां धान्यनाशं गम्भीरतया गृहीत्वा अधिकारिणः शीघ्रं कार्यवाहीं कर्तुं निर्देशितवान्। तेन कृषिविभागं उद्यानविभागं च प्रभावितप्रदेशानां शीघ्रम् आकलनं कृत्वा विस्तृतप्रतिवेदनं प्रस्तोतुम् उक्तम्।
कृषिमन्त्री शनिवासरे दूरभाषेण कृषि-निदेशकेन सह वार्तालापं कृत्वा स्पष्टं कृतवान् यत् धान्यहान्याः यथार्थम् आकलनं प्राथमिकतया क्रियताम्, येन प्रभावितकृषकाः शीघ्रं साहाय्यं प्राप्नुयुः। तेन राजस्वविभागेन सह समन्वयं स्थाप्य संयुक्तसर्वेक्षणं कर्तुमपि निर्देशः दत्तः।
मन्त्री उक्तवान् यत् केन्द्रसर्वकारस्य निर्धारितमानकानुसारं हान्याः आकलनं कृत्वा पात्रेभ्यः कृषकेभ्यः शीघ्रं प्रतिपूरणं प्रदीयताम्। सः पुनः उक्तवान् यत् राज्यसर्वकारः कृषकाणां पक्षे स्थितः अस्ति, तथा कश्चन अपि प्रभावितः कृषकः साहाय्यात् वञ्चितः न भविष्यति।
तेन अधिकारिणः निर्देशिताः यत् सर्वेक्षणकार्ये पारदर्शिता तथा शीघ्रता सुनिश्चितेते, येन कृषकाः समये साहाय्यं प्राप्नुयुः तथा तेषां जीविकायां जातः प्रभावः न्यूनतमः क्रियते।
हिन्दुस्थान समाचार