Enter your Email Address to subscribe to our newsletters

देहरादून-नगरम्, ०२ मईमासः (हि.स.)। देहरादून-स्थिते लोक-भवनस्य सभागारे शनिवासरे गुजरात-महाराष्ट्र-राज्ययोः स्थापना-दिवसस्य उपलक्ष्ये कार्यक्रमः आयोजितः। अस्मिन् अवसरे उभयोः राज्ययोः कलाकारैः मनोहराः सांस्कृतिक-कार्यक्रमाः प्रस्तुताः। विविधाभिः प्रस्तुतिभिः गुजरात-महाराष्ट्रयोः समृद्ध-लोक-संस्कृतेः सुन्दरं दर्शनम् अभवत्। एतासां आकर्षक-प्रस्तुतिनां राज्यपालः लेफ्टिनेंट्-जनरल गुरमीत्-सिंहेन सह उपस्थितैः जनैः प्रशंसा कृता।
राज्यपालेन उक्तं यत् अद्यतनः अयं कार्यक्रमः भारतीय-संस्कृतेः विविधतायाः समृद्ध-परम्पराणां च जीवदृष्टान्तः अस्ति। तेन उक्तं यत् कलाकाराणां प्रस्तुतिषु भक्ति-समर्पण-आत्मीयता-भावानां स्पष्टं परिलक्षणं दृश्यते, यत् अत्यन्तं विशिष्टम् अस्ति।
राज्यपालः अवदत् यत् भारतस्य सभ्यता, संस्कृति:, लोकगीतानि, लोकसंगीतं च अस्माकं अमूल्य-धरोहराणि सन्ति, यान् संरक्षितुं अस्माकं सर्वेषां दायित्वम् अस्ति। सः विशेषतः कुटुम्बस्य भूमिकां निर्दिश्य अवदत् यत् यदा एकस्मिन् एव मञ्चे बालकाः, यूनः, वृद्धाः च मिलित्वा स्वसंस्कृतेः उत्सवं कुर्वन्ति, तदा समाजे सकारात्मक-ऊर्जायाः सञ्चारः भवति।
राज्यपालः “अनेकता-मध्ये-एकता” इति भारतीय-परम्परायाः उल्लेखं कृत्वा अवदत् यत् देशस्य विविधाः भाषाः, वेशभूषाः, भोजन-प्रकाराः, सांस्कृतिक-परम्पराः च अस्माकं महान् बलम् अस्ति। सः “एक-भारत-श्रेष्ठ-भारत” इति संकल्पं पुनरुक्तवान् तथा देशस्य प्रगत्यै एकता, समन्वयः, “नेशन-फर्स्ट” इति भावना च अत्यावश्यकाः सन्ति इति उक्तवान्। तेन राज्यानां समृद्ध-सांस्कृतिक-धरोहराणां उत्सवानां च महत्त्वं निर्दिश्य उक्तं यत् स्व-मूलैः परम्पराभिः च सम्बद्धं भवितुमेव अस्माकं वास्तविक-परिचयः अस्ति।
अस्मिन् कार्यक्रमे प्रथम-महिला गुरमीत्-कौर:, राज्यपाल-सचिवः रविनाथ-रामन्, राज्यपाल-अपर-सचिवा रीना-जोशी, विशेष-सचिवः पराग-मधुकर-धकाते, अपर-सचिवः डॉ. विजय-कुमार-जोगदण्डे, आईजी अनन्त-शङ्कर-ताकवाले, गुजरात-समाज-समितेः आनन्द-मोढा, राजेश-पाठक, हरि-भट्ट, महेन्द्र-भट्ट: इत्यादयः प्रमुखतया उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता