आरेडिका रायबरेल्यां निर्मितं प्रथमं वंदे भारतमिति रेलयानप्रारूपः डायनेमिकपरीक्षणाय प्रस्थितः
नवदिल्ली, 02 मईमासः (हि.स.)। उत्तरप्रदेशस्य रायबरेली-नगरस्थिते आधुनिक-रेल-डिब्ब-कारखाने (आरेडिका) शनिवासरे स्वस्य प्रथमं षोडश-कोचयुक्तं वन्दे-भारत-चेयर-कार-ट्रेनसेट् डायनेमिक-परीक्षणाय क्षेत्र-परीक्षणाय च प्रेष्य नूतनं इतिहासं निर्मितवान्। अनेन स
आरेडिका, रायबरेली में 16-कोच वंदे भारत चेयर कार ट्रेनसेट


नवदिल्ली, 02 मईमासः (हि.स.)।

उत्तरप्रदेशस्य रायबरेली-नगरस्थिते आधुनिक-रेल-डिब्ब-कारखाने (आरेडिका) शनिवासरे स्वस्य प्रथमं षोडश-कोचयुक्तं वन्दे-भारत-चेयर-कार-ट्रेनसेट् डायनेमिक-परीक्षणाय क्षेत्र-परीक्षणाय च प्रेष्य नूतनं इतिहासं निर्मितवान्। अनेन सह आरेडिका वन्दे-भारत-ट्रेनसेट्-निर्माणे स्वकीयां औपचारिक-प्रवेशिकां कृतवती।

रेलमन्त्रालयस्य अनुसारं एषा रेल अत्याधुनिक-सीमेंस-प्रोपल्शन-प्रणाल्या युक्ता अस्ति, तथा नियमित-सेवायां सम्मिलनात् पूर्वं अस्याः ऑसिलेशन-परीक्षणं क्रियते। अनेन माध्यमेन रेलयानस्य गतिसौकर्यं, सुरक्षा-मानदण्डाः, गतिशील-प्रदर्शनं च विस्तरेण मूल्याङ्कितं भविष्यति।

आरेडिका-निर्मिते अस्मिन् ट्रेनसेट्-मध्ये विश्वसनीयतां सुरक्षां च ध्यानं कृत्वा अनेकानि उन्नतानि अभियांत्रिक-सुधाराणि कृतानि सन्ति। अस्मिन् आरामदायक-आसनानि, झटकारहित-यात्रा, पूर्णतया सील्ड-गैङ्गवे, ध्वनिन्यूनतार्थं स्वचालित-प्लग-द्वाराणि च स्थापितानि सन्ति।

सुरक्षादृष्ट्या अस्मिन् रेलयाने स्वदेशीयः “कवच” स्वचालित-रेल-रक्षण-प्रणाली, उन्नता अग्नि-परिचय-प्रणाली (एरोसोल-आधारित-अग्निशमन-युक्ता), अधोलम्बित-उपकरणानां कृते सुरक्षा-व्यवस्था च समाविष्टा अस्ति। अन्यत् च, वैक्यूम-इन्फ्यूजन-प्रौद्योगिक्या निर्मितम् अन्तःसज्जा उच्च-गुणवत्तां उत्तम-समापनं च ददाति।

एषा रेल पूर्णतया दिव्याङ्गजन-अनुकूला अस्ति, यस्मिन् रैम्प्, निर्दिष्ट-स्थानानि, विशेष-सुविधाः च उपलब्धाः सन्ति, येन सर्वेषां यात्रिणां कृते सुलभा समावेशी च यात्रा सुनिश्चिता भवति।

रायबरेली-स्थिते आरेडिका-कारखाने निर्मितः अयं नूतनः वन्दे-भारत-ट्रेनसेट् भारतीय-रेलयानस्य तीव्र-सुरक्षित-आधुनिक-परिवहन-लक्ष्यस्य दिशि महत्त्वपूर्णं पदम् इति मन्यते, यः “आत्मनिर्भर-भारत” इति दृष्टेः विश्वस्तरीय-निर्माण-प्रतिबद्धतां च दर्शयति।

वन्दे-भारत-रेलयानस्य आरम्भः वर्षे २०१८ द्वाभ्यामेव ट्रेनसेटाभ्याम् अभवत्, अधुना तु शततम-ट्रेनसेट इत्यस्य महत्त्वपूर्णं चरणं प्रति प्रगच्छति। अस्मिन् क्रमः अद्य दिवसः विशेषः अभवत्, यदा रायबरेली-स्थितात् आरेडिका-कारखानात् प्रथमं ट्रेनसेट् परीक्षणार्थं प्रेषितम्।

------------

हिन्दुस्थान समाचार