जुबीन गर्गस्य स्मृतौ 10 बीघामितियां भूमौ निर्मास्यते भव्यं ‘जुबीन क्षेत्रम्’ : मुख्यमंत्री
गुवाहाटी, 20 मई (हि.स.)।मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा बुधवासरे नवदेहल्याः प्रत्यक्षतया ‘जुबीनक्षेत्रम्’ आगत्य असमस्य लोकप्रियगायकस्य जुबीन गर्गस्य स्मृत्यर्थम् दशबीघाभूमौ भव्यस्य सर्वाङ्गसुन्दरस्य च सांस्कृतिकस्मारकस्य निर्माणस्य घोषणाम् अकरोत
Assam CM Dr Himanta Biswa Sarma at Zubeen Kshetra.


गुवाहाटी, 20 मई (हि.स.)।मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा बुधवासरे नवदेहल्याः प्रत्यक्षतया ‘जुबीनक्षेत्रम्’ आगत्य असमस्य लोकप्रियगायकस्य जुबीन गर्गस्य स्मृत्यर्थम् दशबीघाभूमौ भव्यस्य सर्वाङ्गसुन्दरस्य च सांस्कृतिकस्मारकस्य निर्माणस्य घोषणाम् अकरोत्।

मुख्यमन्त्रिणो जुबीन गर्गस्य समाधिस्थले श्रद्धाञ्जलिम् अर्पयन् अवदत् यत् राज्यसरकारः कलाकारस्य वास्तविकपरिचयस्य, संपदस्तथा सांस्कृतिकयोगदानस्य संरक्षणसंवर्धनयोः प्रति पूर्णतया प्रतिबद्धा अस्ति। तेन उक्तं यत् जुबीन गर्ग केवलम् कलाकारः न, अपितु असमस्य भावनानां सांस्कृतिकचेतनायाश्च प्रतीकः अस्ति।

डॉ. हिमन्त बिस्व सरमा अवदत् यत् विधानसभानिर्वाचनात् पूर्वम् तेन जनतायै वचनं दत्तम् आसीत् यत् आशीर्वादप्राप्तेः अनन्तरं सरकारः ‘जुबीनक्षेत्रम्’ परियोजनाम् अग्रे नयिष्यति। तदेव प्रतिबद्धतां पालनार्थम् निर्वाचनसमाप्तेः अनन्तरं तेन स्थलं परिदृष्टम्।

मुख्यमन्त्री स्पष्टतया उक्तवान् यत् भाजपादलेन कदापि जुबीन गर्गस्य नाम्ना राजनीति न कर्तव्या इति निर्णयः कृतः आसीत्। अस्य कारणात् निर्वाचनात् पूर्वं तेन ‘जुबीनक्षेत्रम्’ न परिदृष्टम्। तेन उक्तं यत् केषाञ्चन विपक्षीदलानां जुबीन गर्गम् अधिकृत्य राजनीतिः कृता, यस्य परिणामस्वरूपं भाजपादलाय जनतायाः अतिरिक्तसमर्थनं प्राप्तम्।

तेन उक्तं यत् राजनीतेः उपरि उत्थाय जुबीन गर्गस्य वास्तविकपरिचयस्य सांस्कृतिकविरासतस्य च संरक्षणं कालस्य आवश्यकता अस्ति। मुख्यमन्त्री अवदत् यत् लोकनिर्माणविभागेन प्रायः त्रिकोटिरूप्यकव्ययेन परिखाभित्तिनिर्माणस्य प्रारम्भिककार्यं प्रारब्धम् अस्ति। सहैव उपरिभागात् मृत्तिकास्खलननिवारणार्थम् आवश्यकसुरक्षोपायाः अपि क्रियमाणाः सन्ति।

मुख्यमन्त्री अधिकारिभ्यः निर्माणकार्यस्य शीघ्रतां वर्धयितुम् निर्देशान् दत्त्वा अवदत् यत् सरकारः ‘जुबीनक्षेत्रम्’ एकं गरिमामयं सांस्कृतिकरूपेण समृद्धं भाविसंततीनां प्रेरणास्थलं च निर्मातुं संकल्पबद्धा अस्ति।

भावुकस्वरेण मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा अवदत् यत् जुबीन मम प्रियः आसीत्, अस्ति, सदा च भविष्यति। तेन उक्तं यत् जुबीन गर्ग कदापि राजनीतिकविषयः न आसीत्, अपितु असमवासिनां भावनाभिः सम्बद्धं अमरनाम अस्ति।--------------

Hindusthan Samachar / Dheeraj Maithani