‘दिल्ली-टैलेण्ट-हण्ट-योजना’ इत्यस्याः शुभारम्भः, विजेतृभ्यः २.५ लक्षरूप्यकपर्यन्तं नगदपुरस्काराः प्रदास्यन्ते
नवदिल्ली, २० मे-मासः (हि.स.)। रेखा गुप्ता बुधवासरे ‘टैलेण्ट-हण्ट-योजना — विचाराणाम् उड्यनम् २०२६-२७’ इत्यस्याः घोषणां कृतवती। अस्मिन् अवसरे मुख्यमन्त्री अवदत् यत् एषा योजना देहली-नगरस्य यूनां प्रतिभायाः परिचयाय, परिष्काराय, राष्ट्रीयस्तरपर्यन्तं प्
मुख्यमंत्री जन सेवा सदन में आयोजित प्रेस कॉन्फ्रेंस में ‘दिल्ली टैलेंट हंट योजना’ का शुभारंभ करतीदिल्ली की मुख्यमंत्री रेखा गुप्ता, साथ में दिल्ली के कला, संस्कृति एवं भाषा मंत्री कपिल मिश्रा


नवदिल्ली, २० मे-मासः (हि.स.)। रेखा गुप्ता बुधवासरे ‘टैलेण्ट-हण्ट-योजना — विचाराणाम् उड्यनम् २०२६-२७’ इत्यस्याः घोषणां कृतवती। अस्मिन् अवसरे मुख्यमन्त्री अवदत् यत् एषा योजना देहली-नगरस्य यूनां प्रतिभायाः परिचयाय, परिष्काराय, राष्ट्रीयस्तरपर्यन्तं प्रेषणाय च सशक्तं मञ्चं भविष्यति।

जनसेवा-सदने आयोजितायां पत्रकार-परिषदि मुख्यमन्त्रिणा अस्याः महत्त्वाकाङ्क्षिण्याः योजनायाः आधिकारिक-चिह्नस्य अपि अनावरणं कृतम्। सा अवदत् यत् एतत् चिह्नं देहली-नगरस्य यूनां स्वप्नानां, सृजनशीलतायाः, उड्डीयमान-आत्मविश्वासस्य च प्रतीकं वर्तते। अस्मिन् अवसरे देहली-शासनस्य कला-संस्कृति-भाषा-मन्त्री कपिलः मिश्रा अपि उपस्थितः आसीत्।

मुख्यमन्त्री अवदत् यत् अस्याः योजनायाः उद्देश्यं केवलं प्रतिभानां अन्वेषणं नास्ति, अपितु देहली-नगरस्य युवभ्यः एतादृशं मञ्चं निर्मातुं यत् सुगमता, समावेशिता, विविधता तथा प्रतिभाशालि-यूनां स्वरोजगार-आत्मनिर्भरता-अवसराणां वर्धनं करिष्यति। सा अवदत् यत् एषा योजना विविध-सामाजिक-आर्थिक-पृष्ठभूमिभ्यः आगतानां यूनां कृते समानावसरान् प्रदास्यति तथा तेषां सृजनात्मक-क्षमतायाः नूतनां दिशां दास्यति।

मुख्यमन्त्री उक्तवती यत् एषा योजना देहली-नगरस्य सर्वेषु ७० विधानसभाक्षेत्रेषु प्रवर्तिष्यते। योजनायै १० कोटि-रूप्यकाणां वित्तीय-प्रावधानं कृतम् अस्ति। अस्याः अन्तर्गतं २५,००० अधिकाः युवानः विभिन्न-चरणेषु सहभागितायाः अवसरं प्राप्स्यन्ति। सम्पूर्णा प्रक्रिया पारदर्शि-सुव्यवस्थित-चरणबद्ध-रीत्या आयोजिता भविष्यति, येन प्रत्येकं प्रतिभागिने समानः अवसरः लप्स्यते। १६ तः ३५ वर्षपर्यन्तं युवानः अद्य आरभ्य समर्पितेन अन्तर्जाल-पटलेन निःशुल्कं पञ्जीकरणं कर्तुं शक्नुवन्ति।

सप्तसु विधासु प्रतियोगिताः भविष्यन्ति। तासु गायन-वर्गे शास्त्रीय-सङ्गीतम्, लोक-सङ्गीतम्, अशास्त्रीय-सङ्गीतं च समाविष्टम् अस्ति। नृत्य-वर्गे शास्त्रीय-लोक-आधुनिक-नृत्यानि प्रदर्श्यन्ते। एतदतिरिक्तं ललितकला-डिजिटल-कला, मूर्तिकला-पॉटरी, सङ्गीत-रचना, वाद्य-सङ्गीतम्, अभिनय-रङ्गमञ्चादिषु अपि प्रतिभागिभ्यः स्वप्रतिभां प्रदर्शयितुं अवसरः प्रदास्यते।

मुख्यमन्त्री अवदत् यत् एषः कार्यक्रमः चतुर्षु चरणेषु आयोज्यते। प्रथमचरणे अन्तर्जाल-पञ्जीकरणं तथा सप्तसु वर्गेषु प्राप्तानाम् आवेदनानां परीक्षणं लघुसूचीकरणं च भविष्यति। देहली-नगरस्य सर्वेभ्यः ७० विधानसभाक्षेत्रेभ्यः प्रायः २४,५०० प्रतिभागिनः अग्रिमचरणाय चयनिताः भविष्यन्ति। द्वितीयचरणे ३५ समूहस्तरीय-प्रतियोगिताः आयोज्यन्ते, यत्र प्रत्येकस्मिन् समूहस्तरे द्वे विधानसभाक्षेत्रे समाविष्टे भविष्यतः। अस्मिन् चरणे विभिन्न-वर्गेभ्यः आहत्य २,४५० प्रतिभागिनः चयनिताः भविष्यन्ति। तृतीयचरणे चयनित-प्रतिभागिनां कृते चतस्रः क्षेत्रीयस्तरीय-प्रतियोगिताः आयोज्यन्ते। ततः अनन्तरं अन्तिमचरणे २८ अन्तिम-प्रतिभागिनां मध्ये अगस्तमासे राज्यस्तरीय-भव्य-समापन-समारोहः भविष्यति, यस्मिन् सप्तसु वर्गेषु विजेतृभ्यः पुरस्कारराशिः प्रदास्यते। प्रत्येकं अन्तिम-प्रतिभागिने अपि सम्मानितः भविष्यति।

मुख्यमन्त्री उक्तवती यत् प्रतिभागिनां मूल्याङ्कने २५ प्रतिशतं भारः सामान्यजनस्य अन्तर्जाल-मतदानस्य भविष्यति, ७५ प्रतिशतं च विशेषज्ञ-निर्णायक-मण्डलस्य मूल्याङ्कनाधारितं भविष्यति। निर्णायक-मण्डले सम्बन्धित-क्षेत्राणां अनुभवी-प्रतिष्ठित-विशेषज्ञाः समावेश्यन्ते। भव्य-समापन-समारोहे प्रसिद्धाः बॉलीवुड्-कलाकाराः विशिष्टातिथयश्च आमन्त्रिताः भविष्यन्ति।प्रतियोगितायां प्रथमस्थानं प्राप्ताय प्रतिभागिने २.५ लक्ष-रूप्यकाणि, द्वितीयस्थान-प्राप्ताय २ लक्ष-रूप्यकाणि, तृतीयस्थान-प्राप्ताय १.५ लक्ष-रूप्यकाणि, चतुर्थस्थान-प्राप्ताय १ लक्ष-रूप्यकाणि पुरस्काररूपेण प्रदास्यन्ते। एतदतिरिक्तं सर्वे चयनिताः उत्कृष्ट-प्रदर्शनकर्तारश्च प्रमाणपत्रैः, पुरस्कारैः, पदकैश्च सम्मानिताः भविष्यन्ति।

मुख्यमन्त्री अवदत् यत् ‘विचाराणाम् उड्डयनम्’ केवलं प्रतिभा-अन्वेषण-कार्यक्रमः नास्ति, अपितु देहली-नगरस्य यूनां कृते स्वपरिचयं देशे विश्वे च स्थापयितुं मञ्चः अस्ति। अग्रे एते प्रतिभाशालिनः युवानः विविध-सामाजिक-अभियानेषु ‘ब्राण्ड-ऐम्बेसडर’रूपेणापि संयोजयिष्यन्ते, येन ते समाजे सकारात्मक-परिवर्तनस्य वाहकाः भवितुं शक्नुवन्ति। सा युवभ्यः आह्वानं कृतवती यत् ते स्वस्वप्नानां नूतनम् उड्डयनं दद्युः तथा देहली-शासनस्य अस्य मञ्चस्य अधिकाधिकं लाभं गृह्णीयुः।

मन्त्री कपिलः मिश्रा अवदत् यत् राजधानी देहली ‘देहली-टैलेण्ट-हण्ट — विचाराणाम् उड्डयनम्’ इत्येतादृशस्य विशाल-आयोजनस्य कृते सज्जा वर्तते। ‘आत्मनिर्भर-भारत’-संकल्पस्य दिशि एषा योजना देहली-नगरस्य युवभ्यः स्वकला-सृजनशीलता-कौशलस्य च विशालमञ्चे प्रदर्शनस्य सुवर्णावसरं प्रदास्यति तथा तेषां आत्मनिर्भर-भवितुं मार्गं प्रशस्तं करिष्यति। ‘देहली-टैलेण्ट-हण्ट’ इत्यस्य उद्देश्यं केवलं प्रतिभायाः अन्वेषणं न, अपितु तस्याः समुचित-मार्गदर्शनं, परिचयं, अवसरप्रदानं च अस्ति।

Hindusthan Samachar / Divya Ranjan