Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी, 20 मईमासः (हि.स.)। “पर्वतीयक्षेत्रेण उत्तरबङ्गप्रदेशेन च एव सर्वप्रथमं भाजपायै स्थानं प्रदत्तम्। बङ्गप्रदेशस्य रक्षणे भवतां सर्वेषां महती भूमिका अस्ति। वयं विकासस्य माध्यमेन एतत् ऋणं परिशोधयिष्यामः।” बागडोगरा-विमानस्थानके आगमनमात्रेण एव मुख्यमन्त्री शुभेन्दु-अधिकारी उत्तरबङ्गप्रदेशस्य जनान् प्रति एतत् महत्त्वपूर्णं सन्देशं दत्तवान्।
मुख्यमन्त्रिणा स्पष्टतया उक्तं यत् संकल्पपत्रस्य सर्वे प्रतिज्ञावचनानि पूर्णतया सम्पन्नानि भविष्यन्ति तथा उत्तरबङ्गप्रदेशस्य जनानां स्वप्नानि साकाराणि भविष्यन्ति। दीर्घकालात् उपेक्षितस्य अस्य क्षेत्रस्य अधिकाराः प्राथमिकतया पुनः प्रदास्यन्ते।
प्रशासनिकविकेन्द्रीकरणस्य दिशि महत्त्वपूर्णं निर्णयं कृत्वा मुख्यमन्त्रिणा घोषणा कृता यत् अधुना प्रतिमासं राज्य-मन्त्रिमण्डलस्य उपवेशनानि उत्तरबङ्गप्रदेशे भविष्यन्ति। सहैव उत्तरबङ्गविकासमन्त्री प्रति सप्ताहं न्यूनातिन्यूनम् एकं दिवसं उत्तरकन्या-कार्यालये उपविश्य कार्यं करिष्यति।
सिलीगुड़ीस्थिते उत्तरकन्या-कार्यालये प्रचलन्त्याः अस्याः महत्त्वपूर्णायाः उपवेशनविषये सम्पूर्णे उत्तरबङ्गप्रदेशे उत्साहः दृश्यते। दीर्घकालात् लंबितानि विकासकार्याणि शीघ्रतया सम्पन्नानि कर्तुं तथा पर्वतीयप्रदेशात् आरभ्य समतलप्रदेशपर्यन्तं जनानां अपेक्षाः पूरयितुं एव अधुना नूतनसर्वकारस्य मुख्यलक्ष्यम् अस्ति।
अस्मात् पूर्वं बागडोगरा-विमानस्थानके आगमनसमये मुख्यमन्त्रिणः भव्यस्वागतं कृतम्, यत्र मन्त्री निशीथ-प्रामाणिकः दार्जीलिङ्गस्य सांसदः राजू-बिष्टः च उपस्थितौ आस्ताम्।
राजनीतिकपरिवर्तनस्य अनन्तरं उत्तरबङ्गप्रदेशे एषा प्रथमा उच्चस्तरीया प्रशासनिकबैठका अस्ति, यस्याः कृते मिनीशाखासचिवालयं ‘उत्तरकन्या’ विशेषरूपेण अलङ्कृतम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani