यमुनानगरम्, २० मे-मासः (हि.स.)। बालकान् साइबर-आतङ्केभ्यः रक्षितुं अभिभावकाः सतर्काः भवितुम् अर्हन्ति - कमलदीपगोयल:
यमुनानगरम्, २० मे-मासः (हि.स.)। यमुनानगर-जनपदस्य आरक्षक-अधीक्षकः कमलदीपगोयलः अभिभावकान् प्रति आह्वानं कृतवान् यत् ते बालकानां डिजिटल-क्रियाकलापेषु सततं निरीक्षणं कुर्वन्तु तथा च तान् साइबर-अपराधानां विषये जागरूकान् कुर्वन्तु। सः उक्तवान् यत् अद्यत
यमुनानगर पुलिस अधीक्षक कमलदीप गोयल


यमुनानगरम्, २० मे-मासः (हि.स.)। यमुनानगर-जनपदस्य आरक्षक-अधीक्षकः कमलदीपगोयलः अभिभावकान् प्रति आह्वानं कृतवान् यत् ते बालकानां डिजिटल-क्रियाकलापेषु सततं निरीक्षणं कुर्वन्तु तथा च तान् साइबर-अपराधानां विषये जागरूकान् कुर्वन्तु।

सः उक्तवान् यत् अद्यतन-समये बालकाः दूरभाषः, अन्तर्जाल-गेमिंग-प्लेटफॉर्म तथा सोशल-मीडिया इत्यधिकं उपयुञ्जते, यस्य दुरुपयोगं कृत्वा साइबर-अपराधिनः अवैध-लिङ्क्, संदिग्ध-सन्देशः, वीडियो-कॉल तथा अन्तर्जाल-क्रीडानां माध्यमेन बालकान् लक्ष्यं कुर्वन्ति।

तेन उक्तं यत् एतादृशेषु प्रकरणेषु व्यक्तिगत-सूचना-संग्रहणं कृत्वा आर्थिक-वञ्चनं, ब्लैकमेलिंग तथा तथ्य-चौर्यं इत्यादयः अपराधाः क्रियन्ते। अतः सतर्कता एव प्रमुखः संरक्षण-उपायः अस्ति।

आरक्षक-अधीक्षकः नागरिकान् अपि सूचितवान् यत् कस्यापि साइबर-वञ्चनायाः संदिग्ध-गतिविधेः वा विषये त्वरितं राष्ट्रीय-साइबर-सहायता-संख्या-१९३० इत्यस्मिन् सम्पर्कः करणीयः अथवा राष्ट्रीय-साइबर-अपराध-पटले सूचना दातव्या।

अन्ते सः अभिभावकान् उपदिश्य उक्तवान् यत् बालकाः अपरिचित-व्यक्तिभिः सह अन्तर्जाल-संवादं न कुर्वन्तु, संदिग्ध-लिङ्क् फाइल् वा डाउनलोड् न कुर्वन्तु तथा वैयक्तिकविवरणं न दद्युः इति शिक्षणीयम्।

Hindusthan Samachar / Divya Ranjan