Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० मे-मासः (हि.स.)। मेघालयस्य उमरोई-सैन्य-केन्द्रे बुधवासरे बहुपक्षीयः सैन्य-अभ्यासः “प्रगतिः” इति आरब्धः।
अस्मिन् अभ्यासे भूटान-कंबोडिया-इंडोनेशिया-लाओस-मलेशिया-मालदीव-म्यांमार-नेपाल-फिलीपींस-सेशेल्स-श्रीलंका-वियतनाम-इत्येतैः देशैः सह द्वादश-मित्र-राष्ट्राणि भागं गृह्णन्ति। भारतीय-सेनया एतेषां सैन्य-दलानां पारम्परिक-रीत्या स्नेहपूर्वकं स्वागतं कृत्वा भारतस्य सांस्कृतिक-आतिथ्य-परम्परा प्रदर्शिता।
“प्रगतिः” इत्यस्य अर्थः हिंद-महासागर-क्षेत्रे विकास-परिवर्तनयोः कृते क्षेत्रीय-सेनानां सहभागिता इति, यः समानता, मैत्री तथा परस्पर-सम्मान-भावेन आयोजितः अस्ति। अयं अभ्यासः भागग्राही-सेनानां मध्ये व्यावसायिक-आदान-प्रदानाय, अनुभव-विनिमयाय तथा निकट-सैन्य-सहयोग-निर्माणाय एकं सहभाग-मञ्चं प्रददाति।
उद्घाटन-सत्रे भारतीय-सेनायाः अपर-महानिदेशकः (थलसेना) मेजर-जनरलः सुनील-शेओरानः सर्वेषां दलानां स्वागतं कृत्वा समकालीन-सुरक्षा-समस्या-निवारणे सामूहिक-सहभागस्य महत्त्वं प्रतिपादितवान्।
अस्मिन् अभ्यासे संयुक्त-परिचालनानां समन्वयः, सर्वोत्तम-प्रथानां आदान-प्रदानं, तथा संयुक्त-प्रशिक्षणम्, सांस्कृतिक-विनिमयः च अन्तर्भवन्ति। द्विसप्ताह-पर्यन्तं चलति अस्मिन् अभ्यासे अर्ध-पर्वतीय-वन-प्रदेशेषु आतंकवाद-विरोधी-अभ्यासेषु विशेष-केन्द्रणं भविष्यति।
अभ्यासस्य अन्तर्गतं आत्मनिर्भर-भारत-अभियानस्य अन्तर्गतं स्वदेशी-रक्षा-उपकरणानां प्रदर्शनम् अपि भविष्यति, यत् भारतस्य रक्षा-उत्पादन-क्षेत्रे वर्धमानां क्षमतां च प्रकाशयति।
Hindusthan Samachar / Divya Ranjan