प्रधानमंत्री मोदी इटली प्राप्नोत्, जॉर्जिया मेलोनी इत्यनेन रात्रिभोजने मेलनम्
नव दिल्ली, 20 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र-मोदी स्वस्य षड्दिवसीय-पञ्चदेशीय-विदेश-भ्रमणस्य अन्तिम-चरणे ह्यः रात्रौ इटली-देशस्य राजधानीं रोम-नगरम् आगतः, यत्र इटली-देशस्य प्रधानमन्त्री जॉर्जिया-मेलोनी प्रधानमन्त्रिणः मोदी-महोदयस्य सम्मानार्थं
रोम में भारतीय समुदाय से मिलते हुए प्रधानमंत्री नरेन्द्र मोदी।


रोम में भारतीय समुदाय से मिलते हुए प्रधानमंत्री नरेन्द्र मोदी।


- इतालवी चित्रकार जियाम्पाओलो टोमासेट्टी द्वारा प्रस्तुत काशी की पेंटिंग देखते प्रधानमंत्री नरेन्द्र मोदी।


- रोम में भारतीय नृत्य प्रस्तुत करते इतालवी कलाकार।


रोम में इटली की प्रधानमंत्री जॉर्जिया मेलोनी के साथ मुलाकात करते प्रधानमंत्री नरेन्द्र मोदी।


रोम में इटली की प्रधानमंत्री जॉर्जिया मेलोनी के साथ मुलाकात करते प्रधानमंत्री नरेन्द्र मोदी।


रोम में इटली की प्रधानमंत्री जॉर्जिया मेलोनी के साथ डिनर पर मुलाकात करते प्रधानमंत्री नरेन्द्र मोदी।


नव दिल्ली, 20 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र-मोदी स्वस्य षड्दिवसीय-पञ्चदेशीय-विदेश-भ्रमणस्य अन्तिम-चरणे ह्यः रात्रौ इटली-देशस्य राजधानीं रोम-नगरम् आगतः, यत्र इटली-देशस्य प्रधानमन्त्री जॉर्जिया-मेलोनी प्रधानमन्त्रिणः मोदी-महोदयस्य सम्मानार्थं रात्रिभोजस्य आयोजनम् अकरोत्। अस्मिन् अवसरे उभौ नेतारौ भारत-इटली-सम्बन्धान् अधिकं सुदृढान् कर्तुं विषये अनौपचारिकरूपेण गहन-विचार-विमर्शम् अकुरुताम्।

इटली-देशस्य प्रधानमन्त्री जॉर्जिया-मेलोनी इटली-देशे आगमनसमये प्रधानमन्त्री मोदी-महोदयस्य विशेष-शैल्याः स्वागतं कृतवती। सा तेन सह सेल्फी-चित्रं गृहीत्वा सामाजिक-माध्यमेषु सामायिकीकृत्य अलिखत् — “मम मित्र, रोम-नगरे तव स्वागतं भवतु।”

प्रधानमन्त्री मोदी एक्स् इत्यत्र लेखं प्रकाशित्य अलिखत् यत् रोम-नगरे आगमनानन्तरं तस्मै प्रधानमन्त्री मेलोनी-सह रात्रिभोजे सम्मिलितुं कोलोसियम् अवलोकयितुं च अवसरः प्राप्तः। अनेकेषु विषयेषु विचाराः विनिमयिताः, तथा च अद्य भविष्यन्त्यां वार्तायां भारत-इटली-मित्रतायाः अधिक-विस्तारस्य विषये चर्चा प्रवर्तिष्यते।

अनन्तरं प्रधानमन्त्री मोदी इटली-देशस्थितेन भारतीय-समुदायेन सह अपि मिलितवान्। तेन अन्यस्मिन् लेखे अस्य सूचना प्रदत्ता यत् रोम-नगरे भारतीय-समुदायेन प्रदत्तस्य हार्दिक-स्वागतस्य कृते सः अत्यन्तम् आभारी अस्ति। तेषां भारतदेशं प्रति गाढः स्नेहः भारत-इटली-सम्बन्धानां सुदृढीकरणाय प्रतिबद्धता च प्रशंसनीया अस्ति। भारतीय-प्रवासी विश्वस्य सर्वत्र अस्माकं राष्ट्रं गौरवान्वितं कुर्वन्ति।

सहैव प्रधानमन्त्री मोदी इटली-देशस्य प्रसिद्ध-चित्रकारेण जियाम्पाओलो-टोमासेट्टी-महोदयेन सह अपि मिलितवान्। तेन काशी-आधारितं तस्य चित्रं दृष्टम्। प्रधानमन्त्री एक्स् इत्यत्र अलिखत् “रोम-नगरे काश्याः झलकः।” टोमासेट्टी-महोदयस्य भारतीय-संस्कृतेः प्रति अनुरागः चत्वारिंशद्वर्षपुरातनः अस्ति। तेन १९८०-दशके वैदिक-संस्कृत्याधारितानां पुस्तकानां कृते चित्रांकनं कृतम्, तथा च २००८ तः २०१३ पर्यन्तं महाभारत-आधारिताः २३ विशाल-चित्रकृतयः निर्मिताः।

प्रधानमन्त्री अन्यस्मिन् लेखे उक्तवान् यत् रोम-नगरे भारतीय-नृत्ये रुचिमन्तः पञ्च इटली-देशीय-कलाकाराः — स्वामिनी-आत्मानन्द-गिरिः, मार्टिना-मीनाक्षी-आर्गादा, लुक्रेज़िया-मैनिस्कोटी, वलेरिया-वेस्पाजियानी तथा रोसेला-फनेली — “त्रिगलबन्दी” इति प्रस्तुतीकरणम् अकुर्वन्, यस्मिन् कुचिपुड़ी, भरतनाट्यम्, कथक-नृत्यं च समाविष्टम् आसीत्। तेन लिखितं यत् भारतीय-नृत्य-शैल्यः वैश्विक-स्तरे रुच्याः आकर्षणस्य च केन्द्रं भवन्ति इति द्रष्टुम् अद्भुतम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani