Enter your Email Address to subscribe to our newsletters







नव दिल्ली, 20 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र-मोदी स्वस्य षड्दिवसीय-पञ्चदेशीय-विदेश-भ्रमणस्य अन्तिम-चरणे ह्यः रात्रौ इटली-देशस्य राजधानीं रोम-नगरम् आगतः, यत्र इटली-देशस्य प्रधानमन्त्री जॉर्जिया-मेलोनी प्रधानमन्त्रिणः मोदी-महोदयस्य सम्मानार्थं रात्रिभोजस्य आयोजनम् अकरोत्। अस्मिन् अवसरे उभौ नेतारौ भारत-इटली-सम्बन्धान् अधिकं सुदृढान् कर्तुं विषये अनौपचारिकरूपेण गहन-विचार-विमर्शम् अकुरुताम्।
इटली-देशस्य प्रधानमन्त्री जॉर्जिया-मेलोनी इटली-देशे आगमनसमये प्रधानमन्त्री मोदी-महोदयस्य विशेष-शैल्याः स्वागतं कृतवती। सा तेन सह सेल्फी-चित्रं गृहीत्वा सामाजिक-माध्यमेषु सामायिकीकृत्य अलिखत् — “मम मित्र, रोम-नगरे तव स्वागतं भवतु।”
प्रधानमन्त्री मोदी एक्स् इत्यत्र लेखं प्रकाशित्य अलिखत् यत् रोम-नगरे आगमनानन्तरं तस्मै प्रधानमन्त्री मेलोनी-सह रात्रिभोजे सम्मिलितुं कोलोसियम् अवलोकयितुं च अवसरः प्राप्तः। अनेकेषु विषयेषु विचाराः विनिमयिताः, तथा च अद्य भविष्यन्त्यां वार्तायां भारत-इटली-मित्रतायाः अधिक-विस्तारस्य विषये चर्चा प्रवर्तिष्यते।
अनन्तरं प्रधानमन्त्री मोदी इटली-देशस्थितेन भारतीय-समुदायेन सह अपि मिलितवान्। तेन अन्यस्मिन् लेखे अस्य सूचना प्रदत्ता यत् रोम-नगरे भारतीय-समुदायेन प्रदत्तस्य हार्दिक-स्वागतस्य कृते सः अत्यन्तम् आभारी अस्ति। तेषां भारतदेशं प्रति गाढः स्नेहः भारत-इटली-सम्बन्धानां सुदृढीकरणाय प्रतिबद्धता च प्रशंसनीया अस्ति। भारतीय-प्रवासी विश्वस्य सर्वत्र अस्माकं राष्ट्रं गौरवान्वितं कुर्वन्ति।
सहैव प्रधानमन्त्री मोदी इटली-देशस्य प्रसिद्ध-चित्रकारेण जियाम्पाओलो-टोमासेट्टी-महोदयेन सह अपि मिलितवान्। तेन काशी-आधारितं तस्य चित्रं दृष्टम्। प्रधानमन्त्री एक्स् इत्यत्र अलिखत् “रोम-नगरे काश्याः झलकः।” टोमासेट्टी-महोदयस्य भारतीय-संस्कृतेः प्रति अनुरागः चत्वारिंशद्वर्षपुरातनः अस्ति। तेन १९८०-दशके वैदिक-संस्कृत्याधारितानां पुस्तकानां कृते चित्रांकनं कृतम्, तथा च २००८ तः २०१३ पर्यन्तं महाभारत-आधारिताः २३ विशाल-चित्रकृतयः निर्मिताः।
प्रधानमन्त्री अन्यस्मिन् लेखे उक्तवान् यत् रोम-नगरे भारतीय-नृत्ये रुचिमन्तः पञ्च इटली-देशीय-कलाकाराः — स्वामिनी-आत्मानन्द-गिरिः, मार्टिना-मीनाक्षी-आर्गादा, लुक्रेज़िया-मैनिस्कोटी, वलेरिया-वेस्पाजियानी तथा रोसेला-फनेली — “त्रिगलबन्दी” इति प्रस्तुतीकरणम् अकुर्वन्, यस्मिन् कुचिपुड़ी, भरतनाट्यम्, कथक-नृत्यं च समाविष्टम् आसीत्। तेन लिखितं यत् भारतीय-नृत्य-शैल्यः वैश्विक-स्तरे रुच्याः आकर्षणस्य च केन्द्रं भवन्ति इति द्रष्टुम् अद्भुतम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani