बलरामपुरम् : जनजातीय गरिम्नोत्सव-अभियानाय अमिलत् जनसमर्थनं, ग्रामीणान् प्राप्नुयुः शासनस्य योजनाः
बलरामपुरम्, 20 मईमासः (हि.स.)।जनपदे जनजातीयगरिमोत्सवस्य तथा जनभागिता-अभियानस्य “सर्वेभ्यः दूरं, सर्वेभ्यः प्रथमम्” इत्यस्य अन्तर्गतं विभिन्नेषु विकासखण्डेषु व्यापकजनजागरूकताक्रियाकलापानां क्लस्टरस्तरीयशिविराणां च आयोजनं कृतम्। अभियानेन दूरस्थानि जन
कार्यक्रम की तस्वीर।


बलरामपुरम्, 20 मईमासः (हि.स.)।जनपदे जनजातीयगरिमोत्सवस्य तथा जनभागिता-अभियानस्य “सर्वेभ्यः दूरं, सर्वेभ्यः प्रथमम्” इत्यस्य अन्तर्गतं विभिन्नेषु विकासखण्डेषु व्यापकजनजागरूकताक्रियाकलापानां क्लस्टरस्तरीयशिविराणां च आयोजनं कृतम्। अभियानेन दूरस्थानि जनजातीयक्षेत्राणि गत्वा ग्रामवासिनः शासनस्य योजनानां विषये सूचनां दातुं समस्यासमाधानस्य च प्रयासः क्रियते।

अभियानस्य अन्तर्गतं पीएम-जनमन तथा धरती आबा जनजातीयग्रामोत्कर्ष-अभियानात् चयनितेषु ग्रामेषु तथा आदि-सेवाकेन्द्रेषु ग्रामसम्पर्ककार्यक्रमाः सञ्चालिताः। अस्मिन् समये अधिकारिणः, आदि-कर्मयोगिनः तथा अशासकीयसङ्गठनानां प्रतिनिधयः ग्रामेषु पदयात्रां कृत्वा ग्रामवासिभिः सह प्रत्यक्षसंवादं स्थापितवन्तः। ग्रामभ्रमणस्य समये ग्रामाणां वास्तविकस्थितेः अवलोकनं कृत्वा जनान् विविधजनकल्याणकारीयोजनानां प्रति जागरूकाः कृतवन्तः तथा योजनानां अधिकाधिकलाभग्रहणाय प्रेरितवन्तः।

कार्यक्रमेषु ग्रामवासिभ्यः जनसुनवाईव्यवस्थायाः जानकारी अपि प्रदत्ता, येन ते स्वसमस्याः आवश्यकताः च प्रशासनपर्यन्तं सुगमतया प्रेषयितुं शक्नुयुः। अभियानस्य उद्देश्यं शासनस्य ग्रामवासिनां च मध्ये उत्तमसमन्वयस्य स्थापना तथा दूरस्थक्षेत्रेषु सुविधाप्राप्तेः सुनिश्चितीकरणम् अस्ति।

विकासखण्डस्य वाड्रफनगरस्य लोधीक्लस्टर-शिविरे जवराही, चंवरसरईडी, हरिगवां, गिरवानी, पण्डरी, कोटी, लोधी, महेवा, रामनगर, सरूवत, गुरमटी, मदनपुर, बाजरा, पेण्डारी तथा कोटराही ग्रामपञ्चायतानां ग्रामवासिनः बहुसंख्यया सम्मिलिताः। तथा विकासखण्डस्य बलरामपुरस्य चितमाक्लस्टरे रनहत, कर्रीचलगली, चमनपर, भैरोपुर, लुर्गीकला, बादा, लुर्गीखुर्द, मकरो, चंदौरा, धनवार, चम्पापुर, चितमा तथा अमरपुर ग्रामाणां ग्रामवासिनः सहभागिनः अभवन्।

आयोजितेषु शिविरेषु स्वास्थ्यपरीक्षणम्, आधारपत्रसम्बद्धसेवाः, आयुष्मानपत्रनिर्माणम्, श्रमपञ्जीयनम्, जनधनखातप्रारम्भः, महतारीवन्दनयोजनायाः अन्तर्गतं केवाईसी, शिकायतपञ्जीयनम् तथा त्वरितनिराकरणम् इत्यादयः सुविधाः उपलब्धाः कृताः। अस्य अतिरिक्तं ग्रामस्तरे सञ्चालितेषु आदि-सेवाकेन्द्रेषु वृक्षारोपणम्, जनजागरूकताकार्यक्रमाः, ट्रांसेक्ट-वॉक, रथयात्रा तथा जनभागीदारीसभानां आयोजनं कृत्वा जनाः स्वाधिकाराणां योजनानां च विषये जागरूकाः कृताः।

कार्यक्रमेषु जनप्रतिनिधीनां, विभागीयाधिकारिणां-कर्मचारिणां तथा ग्रामवासिनां सक्रियभागीदारी दृष्टा। जिलाप्रशासनस्य कथनम् अस्ति यत् जनजातीयक्षेत्रेषु शासनस्य योजनानां प्रभावीप्राप्तेः सुनिश्चितीकरणाय एतादृशाः विशेष-अभियानाः निरन्तरं सञ्चालयन्ते, येन दूरस्थानां ग्रामवासिनां कृते स्थानीयस्तरे एव आवश्यकसुविधाः उपलब्धाः भवितुं शक्नुयुः।

---------------

Hindusthan Samachar / Dheeraj Maithani