जापानस्य महावाणिज्य दूतेन मुख्यमंत्रिणा सह कृतं मेलनम्
-जापान-ओडिशयोर्मध्ये व्यापाराय, पर्यटनाय शैक्षणिक सहयोगाय मिलिष्यति वृद्धिः भुवनेश्वरम्, 20 मईमासः (हि.स.)। कोलकातास्थितस्य जापानदेशस्य महावाणिज्यदूतः इशिकावा योशिहिसा बुधवासरे लोकसेवाभवने मोहनचरणमाझिना सह मिलित्वा जापानदेशस्य ओडिशाराज्यस्य च म
जापान के महावाणिज्यदूत ने मुख्यमंत्री से की मुलाकात


-जापान-ओडिशयोर्मध्ये व्यापाराय, पर्यटनाय शैक्षणिक सहयोगाय मिलिष्यति वृद्धिः

भुवनेश्वरम्, 20 मईमासः (हि.स.)।

कोलकातास्थितस्य जापानदेशस्य महावाणिज्यदूतः इशिकावा योशिहिसा बुधवासरे लोकसेवाभवने मोहनचरणमाझिना सह मिलित्वा जापानदेशस्य ओडिशाराज्यस्य च मध्ये सम्बन्धान् अधिकं सुदृढीकर्तुं विविधविषयेषु चर्चाम् अकरोत्।

बैठकायाः समये मुख्यमन्त्री मोहनचरणमाझी ओडिशाराज्ये विविधविकासपरियोजनासु जापानदेशस्य सहयोगस्य तथा उभयपक्षयोः वर्धमानव्यापारिकसम्बन्धानां प्रशंसाम् अकरोत्। तेन आशा व्यक्तीकृता यत् जापानदेशः ओडिशाराज्ये निवेशस्य औद्योगीकरणस्य च क्षेत्रे स्वभागिताम् अधिकां विस्तारितुं प्रवर्तिष्यते।

जापानदेशस्य महावाणिज्यदूतः इशिकावा योशिहिसा ओडिशाराज्यस्य जापानदेशस्य च मध्ये कला, संस्कृति, इतिहासः, विरासत् च सम्बद्धानां ऐतिहासिकसम्बन्धानां प्रशंसाम् अकरोत्। तेन उक्तं यत् जापानदेशः राज्यस्य सामाजिकआर्थिकविकासप्रयत्नेषु ओडिशाराज्येन सह सहयोगं अधिकं सुदृढीकर्तुं प्रतिबद्धः अस्ति।

उपवेशने निर्णयः कृतः यत् जापानदेशस्य टोट्टोरी प्रीफेक्चर् तथा ओडिशाराज्यम् ‘सिस्टर स्टेट्’ इति रूपेण साझेदारीं करिष्यतः। उभयोः राज्ययोः उच्चस्तरीयप्रतिनिधिमण्डलानि परस्परदौरान् करिष्यन्ति। अनन्तरं ओडिशाराज्यस्य मुख्यमन्त्री तथा टोट्टोरीराज्यस्य राज्यपालः संयुक्तरूपेण अस्याः साझेदार्याः औपचारिकघोषणां करिष्यतः।

अतिरिक्तरूपेण जापानदेशस्य ओडिशाराज्यस्य च मध्ये व्यापारः, निवेशः, प्रौद्योगिकी, पर्यटनम्, शैक्षणिकआदानप्रदानम् च सुदृढीकर्तुं अपि सहमतिर्जाता।तत्र ओडिशाराज्यस्य बौद्धपर्यटनपरिपथस्य प्राकृतिकपर्यटनस्थलानां च जापानीयपर्यटकानां कृते प्रमुखाकर्षणकेन्द्ररूपेण विकासे विशेषबलं दत्तम्।

एतदपि निर्णीतं यत् जापानदेशस्य काश्चन नियोजनकर्तृसंस्थाः ओडिशाराज्यम् आगमिष्यन्ति, येन राज्यस्य युवानां कृते जापानदेशे जीविकावसराः वर्धिष्यन्ते।

गोष्ठ्यां मुख्यसचिवः अनु गर्ग, उद्योगविभागस्य अतिरिक्तमुख्यसचिवः हेमन्तशर्मा तथा मुख्यमन्त्रिणः अतिरिक्तमुख्यसचिवः शाश्वतमिश्रः सहिताः अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani