Enter your Email Address to subscribe to our newsletters

मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य भोपाल-नगरे गूगल-संस्थायाः वरिष्ठप्रतिनिधिभिः सह उच्चस्तरीयां रणनैतिकां चर्चासभां करिष्यति। अस्याः सभायाः उद्देश्यं मध्यप्रदेश-राज्यस्य गूगल-संस्थायाः च मध्ये दीर्घकालिक-प्रौद्योगिकी-सहयोगं सुदृढीकर्तुं, उन्नत-क्लाउड-प्रौद्योगिकी-प्रयोगं प्रवर्धयितुं तथा एआई-आधारित-समाधानानां उपयोगं विस्तारयितुं च अस्ति।
अस्यां चर्चायां डिजिटल-शासनस्य अधिक-प्रभावीकरणं, जनसेवानां सरलीकरणं, तथा तकनीकी-नवाचारस्य प्रोत्साहनं विषये विशेषं विचारं भविष्यति। विज्ञान-प्रौद्योगिकी-विभागस्य समन्वयेन आयोजिते अस्मिन् कार्यक्रमे एआई-आधारित-डिजिटल-परिवर्तनस्य, स्मार्ट-गवर्नेंस-व्यवस्थायाः च विकासाय नूतना दिशा प्रदीयते।
अस्यां सभायां गूगल-क्लाउड-इण्डिया इत्यस्य पब्लिक-सेक्टर-निदेशकः आशीष-वाट्टलः, एपीएसी-क्षेत्रस्य रणनीतिक-एंगेजमेंट्-निदेशकः मदन-ओबेरॉयः, तथा सिंगापुरतः आगताः वैश्विक-प्रतिनिधयः, स्वास्थ्य-एआई तथा डिजिटल-अवसंरचना-विशेषज्ञाः, राज्यशासनस्य वरिष्ठ-अधिकारीणश्च सहभागिनः भविष्यन्ति।
अस्मिन् चर्चासत्रे सिंहस्थ-२०२८ इत्यस्य प्रौद्योगिकी-आधारित-प्रबंधनं, स्मार्ट-सम्मर्द-प्रबंधनं, एआई-आधारित-जनसुरक्षा-पुलिसिंग, डेटा-आधारित-निरीक्षण-व्यवस्था तथा प्रभावी-नागरिकसेवा-विकासः इत्यादयः विषयाः प्रमुखतया चर्चिताः भविष्यन्ति।
तथा च स्वास्थ्य-क्षेत्रे एआई-आधारित-रोग-निदानम्, कृषिक्षेत्रे डिजिटल-सेवानां विस्तारः, शिक्षाक्षेत्रे एआई-आधारित-शिक्षणं कौशल-विकासः, स्टार्टअप-इकोसिस्टम-विकासः, पर्यावरण-संरक्षणाय प्रौद्योगिकी-प्रयोगः इत्यादयः विषयाः अपि विचारणीयाः सन्ति।
अयं संवादः मध्यप्रदेशस्य गूगल्-संस्थायाः च मध्ये रणनीतिक-सहयोगं दृढीकृत्य राज्यं नवाचार-आधारित-आधुनिक-विकासमार्गे अग्रसरयितुं महत्वपूर्णः प्रयासः इति मन्यते।
Hindusthan Samachar / Divya Ranjan