Enter your Email Address to subscribe to our newsletters

मध्यप्रदेशस्य राज्यपालः मंगुभाईसी.पटेलः अद्य भीमपुर-नगरे आयोजिते राष्ट्रीय-सिकल-सेल-एनीमिया-उन्मूलन-मिशन-२०४७ अन्तर्गतं “जांच-जागरूकता-जनसहभागिता-महा-अभियानम्” इति कार्यक्रमे सहभागं करिष्यति।
अस्मिन् अवसरे सिकल-सेल-एनीमिया तथा थैलीसीमिया-रोगाणां परीक्षणाय नवीन-यन्त्रस्य शुभारम्भः अपि क्रियते। राज्यपालः विभिन्न-विभागैः स्थापितानां वितानानां निरीक्षणं करिष्यति तथा स्वास्थ्य-जागरूकतां सम्बद्धां प्रगतिं अवलोकयिष्यति।
कार्यक्रमस्य आरम्भः प्रातः वन्दे मातरम्-राष्ट्रगान-दीपप्रज्वलनेन भविष्यति, ततः लघु-चलचित्रप्रदर्शनं तथा हितलाभ-वितरणकार्यक्रमः अपि आयोजितः अस्ति। अस्मिन् अवसरे सिकल-मित्र-योजना, यूडीआईडी-पत्रकम्, जेनेटिक-पत्रकम्, स्व-सहायता-समूह-सीसीएल-चेक, टीबी-रोगिणां भोजन-पेटिका तथा प्रतिभाशालिनां बालकानां प्रमाणपत्र-वितरणं अपि भविष्यति।
ततः राज्यपालः जनसमूहं सम्बोधयिष्यति तथा स्वास्थ्य-शिविरस्य दिव्याङ्ग-परीक्षण-शिविरस्य च अवलोकनं करिष्यति। कार्यक्रमानन्तरं सः हेलीपैड-इत्यत्र गत्वा बैतूल-नगरं प्रति प्रस्थानं करिष्यति, यत्र भोजन-कार्यक्रमः तथा सायंकाले वृक्षारोपण-कार्यक्रमः अपि निर्धारितः अस्ति।
Hindusthan Samachar / Divya Ranjan