ब्रिक्स-युवा-उद्यमिता-कार्यसमूहस्य द्विदिवसीया सभा अद्यतः इन्दौरनगरे आरभ्यते
ब्रिक्स-युवा-उद्यमिता-कार्यसमूहस्य द्विदिवसीया सभा अद्य इन्दौर-नगरे प्रारभ्यते। “सुदृढ़ता, नवाचारः, सहयोगः, स्थिरता च” इति विषये आयोजितेऽस्मिन् सम्मेलने ब्रिक्स-सदस्यदेशानां प्रतिनिधयः तथा युवा-उद्यमिनः सहभागं करिष्यन्ति। भारतदेशः अस्याः सभायाः अध्
ब्रिक्स के लोगों के साथ इंदौर का राजवाड़ा


ब्रिक्स-युवा-उद्यमिता-कार्यसमूहस्य द्विदिवसीया सभा अद्य इन्दौर-नगरे प्रारभ्यते। “सुदृढ़ता, नवाचारः, सहयोगः, स्थिरता च” इति विषये आयोजितेऽस्मिन् सम्मेलने ब्रिक्स-सदस्यदेशानां प्रतिनिधयः तथा युवा-उद्यमिनः सहभागं करिष्यन्ति। भारतदेशः अस्याः सभायाः अध्यक्षतां करिष्यति, तथा च आयोजनं युवा-कार्यक्रम-विभागेन (युवा एवं खेल मंत्रालयः) क्रियते।

कार्यक्रमस्य उद्घाटनसत्रस्य अध्यक्षता केन्द्रीय-युवा-कार्य-मन्त्री रक्षा निखिलखडसे करिष्यति। अस्मिन् अवसरे केन्द्रीय-युवा-कार्य-तथा-खेलमन्त्री डॉ.मनसुखमांडविया वर्चुअल-माध्यमेन सम्बोधनं करिष्यन्ति। इन्दौरस्य होटल-मेरियट इत्यत्र आयोजिते अस्मिन् कार्यक्रमे विभिन्नाः शासकीय-विभागाः औद्योगिक-संस्थाश्च स्व-प्रदर्शनानि प्रदर्शयिष्यन्ति।

मध्यप्रदेशस्य खेल-युवा-कल्याणमन्त्री विश्वास-कैलाश-सारङ्गः तथा युवा-कार्य-विभागस्य सचिवा डॉ.पल्लवीजैनगोविलः अपि स्वविचारान् प्रस्तुतवतः भविष्यतः। अस्मिन् सम्मेलने ब्रिक्स-देशानां प्रतिनिधयः स्व-देशेषु विद्यमानं उद्यमिता-परिसरम्, नवाचार-आदर्शान्, युवा-उद्यमिता-प्रयत्नान् च प्रस्तुतं करिष्यन्ति।

अत्र डिजिटल-नवाचारः, प्रौद्योगिकी-आधारित-नवाचारः, समावेशी-उद्यमिता, हरित-उद्यमिता तथा जलवायु-सकारात्मक-व्यापार-आदर्शाः इत्यादिषु विषये समूह-चर्चाः अपि भविष्यन्ति।

द्वितीयदिने प्रतिनिधयः आईटी-उद्याने क्रिस्टल-आईटी-उद्यानं तथा पीथमपुर-स्थितं सिपला-लिमिटेड्-औद्योगिक-संस्थानं च भ्रमणं करिष्यन्ति, यत्र ते मध्यप्रदेशस्य औद्योगिक-विकासं, फार्मास्यूटिकल-उत्पादनं तथा स्टार्टअप-परिसरं प्रत्यक्षं द्रक्ष्यन्ति।

Hindusthan Samachar / Divya Ranjan