मोहनरावभागवत: अद्य आरभ्य त्रिदिवसीय-प्रवासाय शहडोल-नगरं प्रति गच्छति
शहडोल-नगरम्, २० मे-मासः (हि.स.)। मोहनरावभागवत: अद्य मध्यप्रदेशस्य शहडोल-नगरम् आगच्छति। सः अत्र त्रिदिवसीय-प्रवासे स्थास्यति। तस्य आगमनस्य दृष्ट्या जनपद-प्रशासनेन कठोर-सुरक्षा-व्यवस्था कृता अस्ति। सरसंघचालकस्य डॉ.भागवतस्य प्रथमवारं शहडोल-नगरम् आगमन
मोहन भागवत (फाइल)


शहडोल-नगरम्, २० मे-मासः (हि.स.)। मोहनरावभागवत: अद्य मध्यप्रदेशस्य शहडोल-नगरम् आगच्छति। सः अत्र त्रिदिवसीय-प्रवासे स्थास्यति। तस्य आगमनस्य दृष्ट्या जनपद-प्रशासनेन कठोर-सुरक्षा-व्यवस्था कृता अस्ति।

सरसंघचालकस्य डॉ.भागवतस्य प्रथमवारं शहडोल-नगरम् आगमनं भवति। सः अद्य रेलयानद्वारा कटनी-नगरम् प्राप्स्यति, ततः स्थलमार्गेण शहडोल-नगरम् आगमिष्यति। जनपदे प्रथमवारं तस्य प्रवासस्य कारणात् ‘जेड्-प्लस्’-सुरक्षा-व्यवस्था प्रवर्तिता अस्ति, यस्यां प्रायः ३५० अधिकारिणः सैनिकाश्च नियुक्ताः सन्ति। एतेषु सीआईएसएफ-दलस्य, विशेष-शाखायाः, जनपद-पुलिसस्य, समीपस्थ-जनपदेभ्यः आहूतानां सुरक्षा-बलानां च समावेशः अस्ति।

सरसंघचालकस्य डॉ.भागवतस्य मुख्य-कार्यक्रमः पाण्डव-नगर-स्थिते सरस्वती-विद्यालय-परिसरे आयोजिते बौद्धिक-शिविरे भविष्यति। अस्मिन् शिविरे ३०० अधिकाः शिक्षार्थिनः सहभागित्वं करिष्यन्ति। प्रवासस्य अवधौ सः अनेकेषु बौद्धिक-साङ्गठनिक-सत्रेषु सहभागित्वं करिष्यति।

तस्य आगमनस्य दृष्ट्या पाण्डव-नगर-क्षेत्रं विशेष-सुरक्षा-परिधौ स्थापितम् अस्ति। विद्यालय-परिसरे चतुर्विंशति-होरात्मक-सुरक्षा-व्यवस्था भविष्यति, अपि च ५०० मीटर-परिमिते क्षेत्रे ड्रोन-यानानां संचालनं पूर्णतया निषिद्धं कृतम् अस्ति। प्रवेशं कुर्वतः प्रत्येकस्य व्यक्तेः सघन-निरीक्षणं करिष्यते। सीसीटीवी-निरीक्षणं तथा बहुस्तरीय-सुरक्षा-प्रणाली अपि सज्जीकृता अस्ति।

शहडोल-जनपदस्य आरक्षक-अधीक्षकः रामश्रीवास्तव: अवदत् यत् सुरक्षा-व्यवस्थायां कापि त्रुटिः मा भवेत् इति उद्देश्येन विशेष-सतर्कता पाल्यते। सरसंघचालकस्य अयं प्रवासः साङ्गठनिक-दृष्ट्या अत्यन्तं महत्त्वपूर्णः मन्यते। जनपदस्य सर्वेषु स्वयंसेवकेषु संघ-कार्यकर्तृषु च तस्य आगमनविषये विशेषः उत्साहः वर्तते। डॉ.भागवतः २२ मे-मासस्य रात्रौ शहडोल-नगरात् पुनः प्रस्थितः भविष्यति।

Hindusthan Samachar / Divya Ranjan