मध्यप्रदेश-राज्य-वित्त-आयोगः अद्य ग्वालियर-नगरे प्रवर्तते। पवैया इत्यस्य अध्यक्षतायां आयोगस्य महत्त्वपूर्णाः सभाः आयोजिताः भविष्यन्ति
मध्यप्रदेशस्य नवगठितः षष्ठः राज्य-वित्त-आयोगः अद्य ग्वालियर-नगरे प्रवासं करिष्यति। अस्मिन् अवसरे आयोगस्य अध्यक्षः जयभानसिंह-पवैया इत्यस्य अध्यक्षतायां जनप्रतिनिधिभिः सह तथा संभाग-स्तरीय-अधिकारीभिः सह महत्त्वपूर्णाः सभाः आयोजिताः भविष्यन्ति।अस्मिन्
जयभान सिंह पवैया (फाइल फोटो)


मध्यप्रदेशस्य नवगठितः षष्ठः राज्य-वित्त-आयोगः अद्य ग्वालियर-नगरे प्रवासं करिष्यति। अस्मिन् अवसरे आयोगस्य अध्यक्षः जयभानसिंह-पवैया इत्यस्य अध्यक्षतायां जनप्रतिनिधिभिः सह तथा संभाग-स्तरीय-अधिकारीभिः सह महत्त्वपूर्णाः सभाः आयोजिताः भविष्यन्ति।अस्मिन् चर्चासत्रे स्थानीय-स्वशासी-संस्थानां वित्तीय-स्थितिः, पारदर्शिता, गुणवत्ता तथा आर्थिक-स्वावलम्बनम् इत्यादिनां विषये जनप्रतिनिधीनां तथा प्रशासनिक-अधिकारीणां विचाराः संग्रहीताः भविष्यन्ति।

प्रातः ११:३० वादने वीआईपी-सर्किट-हाउस (मुरार) इत्यत्र ग्वालियर-जनपदस्य मन्त्रिणः, सांसदाः, विधायका:, महापौरः, नगर-निगम-सभापतिः, जनपद-पंचायत-अध्यक्षः तथा अन्ये स्थानीय-प्रतिनिधयः सम्मिल्य वित्तीय-विषये चर्चां करिष्यन्ति।ततः अपराह्णे २:३० वादने संभागायुक्त-कार्यालयस्य सभागारे संभागीय-अधिकारीणां, उपायुक्त-गणानां, नगर-निगम-आयुक्तानां इत्येतैः च सह सभाः भविष्यन्ति। अस्यां चर्चायां निकायानां मूल-दायित्वानि, स्वच्छता, पेयजल-व्यवस्था, विकास-कार्याणां गुणवत्ता तथा स्व-राजस्व-वृद्धेः उपायाः इत्यादयः विषयाः विचारणीयाः सन्ति।

अस्मिन् सन्दर्भे नगरीय-तथा-पंचायत-क्षेत्रेषु सहकारिता-आधारित-नवाचाराणां विषयेऽपि विमर्शः भविष्यति।

आयोगस्य दलं २१ मे-मासे मुरैना-नगरे चम्बल-सम्भागस्य जनप्रतिनिधिभिः सह अधिकारीभिः च सभां करिष्यति। भ्रमणकाले केन्द्र-राज्य-प्रायोजित-योजनानां क्रियान्वयनस्य वास्तविक-स्थितिं ज्ञातुं आकस्मिक-निरीक्षणमपि कर्तुं सम्भावना अस्ति।

Hindusthan Samachar / Divya Ranjan