Enter your Email Address to subscribe to our newsletters

मंडी, 20 मईमासः (हि.स.)।
मंडी निवासी तथा एनएचपीसी संस्थायाः सीएमडी भूपेंद्र गुप्ता नॉर्वेदेशस्य ओस्लो नगरे स्थिते सिटी-हॉलमध्ये आयोजिते भारत–नॉर्वे-व्यापार-तथा-अनुसन्धान-शिखर-सम्मेलने नरेन्द्र मोदिनो नेतृत्वयुक्तस्य भारतीय-प्रतिनिधिमण्डलस्य सदस्यत्वेन सहभागितां कृतवान्। अस्मिन् शिखर-सम्मेलने भारतस्य नॉर्वेदेशस्य च प्रधानमन्त्रिणोः उपस्थितौ स्वच्छ-ऊर्जा, जलविद्युत्, हरित-विकासः, खाद्य-सुरक्षा, उर्वरक-क्षेत्रम्, मत्स्य-पालनम्, जलयान-निर्माणम् तथा अनुसन्धानम् इत्यादिषु महत्त्वपूर्णविषयेषु उच्चस्तरीया चर्चा अभवत्।
अस्मिन् अन्ताराष्ट्रिय-कार्यक्रमे भूपेंद्र गुप्ता महोदयस्य सहभागिता भारतस्य नवीकरणीय-ऊर्जा तथा सतत-विकास-क्षेत्रे एनएचपीसी संस्थायाः वर्धमानां भूमिकां प्रदर्शयति।
तथैव मंडी नगरस्य जनानां कृते एषा उपलब्धिः विशेष-भावनात्मक-महत्त्वं धारयति। मंडी सम्बद्धं भूपेंद्र गुप्ता महोदयम् अन्ताराष्ट्रिय-मञ्चे भारतस्य प्रतिनिधित्वं कुर्वन्तं दृष्ट्वा क्षेत्रस्य जनाः स्वान् गौरवान्वितान् अनुभवन्ति।
बीजे स्कूल मंडी इत्यस्य ऐतिहासिकविद्यालयस्य छात्रः आसीत् भूपेंद्र गुप्ता, सः अद्य क्षेत्रस्य युवानां कृते प्रेरणास्रोतः अभवत्।
तस्य पिता सेवानिवृत्तः ए.एस. गुप्ता अपि हिमाचल प्रदेश राज्य विद्युत बोर्ड संस्थायां सदस्यपदे स्वसेवां प्रदत्तवान्। भूपेंद्र गुप्ता महोदयस्य एषा उपलब्धिः न केवलं तस्य वैयक्तिकी सफलता अस्ति, अपितु समग्रस्य हिमाचल प्रदेश प्रदेशस्य, विशेषतः मंडी तथा ऊर्जा-क्षेत्रे सम्बद्धानां जनानां कृते गौरवस्य विषयः अस्ति।
अत्रान्तरे मंडीनगरस्य नागरिकाः, अभियन्तारः, व्यावसायिकाः तथा शुभेच्छवः भूपेंद्र गुप्ता महोदयाय अभिनन्दनानि शुभकामनाः च प्रदत्तवन्तः। अस्मिन् अवसरे हरीश शर्मा, सेवानिवृत्त-जनरल-मैनेजरः एस जे वी एन एल, ओल्ड स्टूडेंट एसोसिएशन बीजे हाई स्कूल मंडी संस्थायाः अध्यक्षः अनिल शर्मा, वरिष्ठ-उपाध्यक्षः डॉ कमलजीतः, सचिवः संतोष कुमारः, गजेंद्रः, तारा चंद पटियालः, डॉ. हरीश बहलः, हेमंत कपूरः, इंदु शर्मा, ओम कपूरः, अशोक अवस्थी, विनोद बहलः, अजय सहगलः, सेवानिवृत्त-सेशन-न्यायाधीशः तेजिंदर वैद्य इत्यादयः अभिनन्दनानि प्रदत्तवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani