प्रधानमन्त्री नरेन्द्रमोदी इटलीदेशस्य प्रधानमन्त्री-जियोर्जियामेलोनी इत्यस्यै ‘मेलोडी’ नामकं उपहारं दत्तवान्, यत् अन्तर्जाले अतिविशेषतया प्रचलितम् अभवत्
नवदिल्ली, २० मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वकीय-इटली-प्रवासे प्रधानमन्त्री- जियोर्जियामेलोनी-इत्यस्यै विशेष-उपहाररूपेण ‘मेलोडी’ नामकां टॉफी-इति दत्तवान्। एषः प्रसङ्गः सामाजिक-माध्यमेषु शीघ्रं प्रसरितः अभवत्। उक्तं यत् प्रधानमन्त्री
इटली की प्रधानमंत्री को उपहार देते प्रधानमंत्री मोदी


नवदिल्ली, २० मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वकीय-इटली-प्रवासे प्रधानमन्त्री- जियोर्जियामेलोनी-इत्यस्यै विशेष-उपहाररूपेण ‘मेलोडी’ नामकां टॉफी-इति दत्तवान्। एषः प्रसङ्गः सामाजिक-माध्यमेषु शीघ्रं प्रसरितः अभवत्।

उक्तं यत् प्रधानमन्त्री मेलोनी स्वस्य एक्स-इत्यत्र एतस्य हृदयग्राही-चलचित्रं संस्थापितवती। तस्मिन् दृश्ये प्रधानमन्त्री मोदी तस्यै उपहारं ददाति, तथा मेलोनी धन्यवादं प्रकटयति इति दृश्यते।

‘मेलोडी’ इति शब्दः इटली-प्रधानमन्त्रिणा द्वयोः देशयोः मैत्री-संबन्धान् रेखाङ्कयितुं निर्मितः, यत्र तयोः नाम्नोः संयोगः कृतः अस्ति। सा पूर्वमपि बहुवारं ‘मेलोडी’ इति हैशटैग् इति उपयुज्य प्रधानमन्त्रीमोदिना सह स्वचित्राणि प्रकाशितवती।

भारतीय-जनता-पक्षेण एतत् प्रधानमन्त्री हास्य-शैली-युक्तं व्यवहारम् इति उक्तम्। भारतदेशे ‘मेलोडी’ टॉफी-इति पूर्वकालीन-विज्ञापनात् अत्यन्तं प्रसिद्धा अस्ति, यस्य “मेलोडी इति किमर्थं चॉकलेटी?” इति वाक्यं जनैः स्मर्यते।

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्रमोदी स्वस्य पञ्चदेशीय-विदेश-यात्रायाः अन्तिम-चरणे अद्य इटलीदेशे वर्तते।

/ अंशु गुप्ता