शास्त्राणाम् अनुसारम् आचरणमेव समाजाय दिशं ददाति : प्रधानमंत्री मोदी
नवदिल्ली, 20 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र-मोदी आदर्श-जीवन-मूल्यानां शास्त्राधारित-आचरणस्य च महत्त्वं प्रतिपादयन् उक्तवान् यत् सुव्यवस्थित-मानकैः निर्देशितं मानवीयं व्यवहारः व्यक्तिं समाजं च उभौ प्रकाशयति। प्रधानमन्त्री मोदी सामाजिक-माध्यम
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, 20 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र-मोदी आदर्श-जीवन-मूल्यानां शास्त्राधारित-आचरणस्य च महत्त्वं प्रतिपादयन् उक्तवान् यत् सुव्यवस्थित-मानकैः निर्देशितं मानवीयं व्यवहारः व्यक्तिं समाजं च उभौ प्रकाशयति।

प्रधानमन्त्री मोदी सामाजिक-माध्यम-मञ्चे एक्स् इत्यत्र एकं संस्कृत-सुभाषितं सामायिकीकृत्य अलिखत् —

“तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।।

अस्य श्लोकस्य अर्थं व्याख्याय तेन उक्तं यत् किं करणीयं किं च अकरणीयम् इति निर्धारणार्थं शास्त्राणि मार्गदर्शकरूपेण स्वीकरणीयानि। शास्त्रेषु निर्दिष्टान् नियमांश्च सिद्धान्तांश्च सम्यक् अवगत्य एव मनुष्येण स्वकर्माणि कर्तव्याणि।

प्रधानमन्त्री उक्तवान् यत् धार्मिकं नैतिकम् आचरणं च दीपकवत् भवति, यत् केवलं व्यक्तेः जीवनमेव न, अपितु सम्पूर्णं समाजमपि दिशा-प्रकाशौ प्रददाति। तेन उक्तं यत् यदा व्यक्तिः स्थापित-मूल्यानां आदर्शानां च अनुसारं जीवनं यापयति, तदा तस्य आचरणं संतुलितं ग्राह्यं समाजोपयोगि च भवति।

तेन उक्तं यत् अद्य देशवासिनः संयमेन दृढतया कर्तव्यनिष्ठया च सह राष्ट्र-निर्माणे सक्रियां भूमिकां निर्वहन्ति। एतत् भारतीय-जीवन-मूल्यानां आदर्श-आचरणस्य च जीवन्तम् उदाहरणम् अस्ति।

प्रधानमन्त्री मोदी उक्तवान् यत् श्रेष्ठम् आचरणं तदेव भवति, यत् व्यक्तेः सह सम्पूर्णस्य समाजस्यापि सकारात्मक-दिशा-प्रदाने कार्यं करोति। तेन देशवासिभ्यः नैतिक-मूल्यानि कर्तव्यपरायणतां च जीवनस्य आधाररूपेण स्वीकर्तुम् आह्वानमपि कृतम्।-----------------