प्रधानमंत्रिणो मोदिनः इटली यात्रा, रोमतः सहकृतवान् चित्राणि , 'भारत-मध्य पूर्व-यूरोप आर्थिकवीथिका' वर्तिष्यते चर्चायाः केंद्रे
रोम (इटली), 20 मईमासः (हि.स.)। नरेन्द्र मोदी मङ्गलवासरे पञ्चदेशीययात्रायाः अन्तिमचरणे रोम नगरं प्राप्तवान्। अद्य स्वदेशं प्रति प्रस्थानात् पूर्वं प्रधानमन्त्री सर्जियो मैटारेला महोदयेन सह शिष्टाचारभेटं करिष्यति तथा जॉर्जिया मेलोनी महोदया सह द्विप
972452895e9c899bd66bced906fac6d5_1111518200.jpg


faa1b1b16f72a3c5032054ce90a7f6e7_1155580204.jpg


7bca98582633d5b5da5b2c5d5730d394_844735672.jpg


5a90d647ed028e9b13bedc130997e9fa_2116653643.jpg


रोम (इटली), 20 मईमासः (हि.स.)।

नरेन्द्र मोदी मङ्गलवासरे पञ्चदेशीययात्रायाः अन्तिमचरणे रोम नगरं प्राप्तवान्। अद्य स्वदेशं प्रति प्रस्थानात् पूर्वं प्रधानमन्त्री सर्जियो मैटारेला महोदयेन सह शिष्टाचारभेटं करिष्यति तथा जॉर्जिया मेलोनी महोदया सह द्विपक्षीयवार्तां करिष्यति। अस्य अतिरिक्तं अन्येषु उच्चस्तरीयराजनयिककार्यक्रमेषु अपि तस्य सहभागिता भविष्यति। प्रधानमन्त्रिणो नरेन्द्र मोदिनः अनुसारम् इटलीयात्रायाः प्रमुखः उद्देश्यः “भारत-मध्यपूर्व-यूरोप-आर्थिक-गलियारा” इत्यस्य विषये चर्चा अपि अस्ति।

नरेन्द्र मोदी प्रायेण सप्तघण्टापूर्वं स्वस्य एक्स-माध्यमे रोम नगरं प्राप्तस्य सूचना तथा चत्वारि स्मरणीयचित्राणि प्रकाशितवान्। तेन लिखितम्— “अहं इटलीदेशस्य रोम-नगरे प्राप्तवान् अस्मि। अहं राष्ट्रपति सर्जियो मैटारेला तथा प्रधानमन्त्री जॉर्जिया मेलोनी महोदयौ मिलित्वा ताभ्यां सह चर्चा करिष्यामि। अस्य प्रवासस्य मुख्यः केन्द्रबिन्दुः भारत-इटली इत्येतयोः मध्ये सहयोगस्य सुदृढीकरणम् भविष्यति, यस्मिन् ‘भारत-मध्यपूर्व-यूरोप-आर्थिक-गलियारा’ (आईएमईसी) इत्यत्र विशेषं ध्यानं प्रदास्यते। संयुक्त-रणनीतिक-कार्ययोजना २०२५-२०२९ अपि पुनरवलोकिता भविष्यति। अहं संयुक्तराष्ट्रस्य खाद्य-कृषि-सङ्गठनस्य (एफएओ) मुख्यालयम् अपि गमिष्यामि। अनेन बहुपक्षवादे तथा वैश्विक-खाद्यसुरक्षायां भारतस्य प्रतिबद्धता अधिकं दृढा भविष्यति।”

जॉर्जिया मेलोनी प्रधानमन्त्रिणः नरेन्द्र मोदी इटलीदेशस्य राजधानीं प्राप्ते सति एक्स-माध्यमे लिखितवती— “रोम-नगरे भवतः स्वागतं, मम मित्र!” उल्लेखनीयम् अस्ति यत् प्रधानमन्त्रिणो मोदिनः अयं प्रवासः उभयदेशयोः तीव्रतया सुदृढीभवन्त्याः रणनीतिक-साझेदार्याः मध्ये सम्पन्नः भवति। अस्य पूर्वं प्रधानमन्त्री नरेन्द्र मोदी जून-मासे २०२४ तमे वर्षे जी-7 शिखर सम्मेलन मध्ये सहभागितायै इटलीदेशं गतवान्।

अतः विशेषः अस्ति “भारत-मध्यपूर्व-यूरोप-आर्थिक-वीथिका”

प्रधानमन्त्रिणः नरेन्द्र मोदिनः इटलीदेशस्य शीर्षनेतृत्वेन सह अस्य गलियारस्य विषये चर्चा भविष्यति।इयं वीथी अनेकदृष्ट्या अत्यन्तं महत्त्वपूर्णः अस्ति। प्रथमं, एषा महत्त्वाकाङ्क्षिणी बहुविध-संयोजकता-परियोजना अस्ति। अस्य उद्देश्यं समुद्र-रेल-मार्ग-सड़कजालस्य माध्यमेन भारतस्य, मध्यपूर्वस्य तथा यूरोपस्य मध्ये व्यापारस्य आर्थिकैक्यस्य च प्रोत्साहनम् अस्ति। अस्य घोषणा सेप्टेम्बर-मासे २०२३ तमे वर्षे नई दिल्ली नगरे आयोजिते जी20 शिखर सम्मेलन कृता आसीत्।

इयं वीथी द्वयोः मुख्ययोः भागयोः विभक्तः अस्ति। प्रथमः पूर्वीय-गलियारः अस्ति। एषः भारतस्य बन्दरगाहस्थलानि समुद्रमार्गेण मध्यपूर्वदेशैः, यथा संयुक्त अरब अमीरात तथा सऊदी अरब, सह संयोजयति। उत्तरीय-गलियारः रेलमार्गेण सऊदी अरब तथा जॉर्डन मार्गेण इजराइल देशस्य हाइफा बंदरगाह पर्यन्तं गमिष्यति, ततः समुद्रमार्गेण यूरोपीय-बन्दरगाहान् प्रति प्रेष्यते।

अस्य उपक्रमस्य अन्तर्गतं भारत, संयुक्त अरब अमीरात, सऊदी अरब, अमेरिका, फ्रांस, जर्मनी, इटली तथा इजराइल सम्मिलिताः सन्ति। इयं वीथी केवलं मालपरिवहनपर्यन्तं सीमितः न भविष्यति। अस्मिन् अन्तर्जाल-दत्तांश-संयोजकतायै उच्चवेग-समुद्रतल-तंत्र्यः अपि सम्मिलिताः सन्ति। परिवहनस्य अस्य नूतनमाध्यमेन भारतस्य यूरोपस्य च मध्ये व्यापारे लग्नकालस्य पर्याप्ता न्यूनता भविष्यतीति अपेक्षा अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani