राष्ट्रपति-द्रौपदीमुर्मू आईएएस-अधिकारीन् सम्बोध्य उक्तवती यत् तैः भावुकतां विना संवेदनशीलतया कार्यं करणीयम्
नवदिल्ली, २० मे-मासः (हि.स.)। राष्ट्रपति-द्रौपदीमुर्मू बुधवासरे उक्तवती यत् प्रशासनिक-अधिकारीभिः करुणा तथा तर्कसंगतता इत्येतयोः मध्ये संतुलनं स्थापनीयम्, तथा ते संवेदनशीलाः स्युः किन्तु अत्यधिक-भावुकाः न भवितव्याः।राष्ट्रपति-भवने विभिन्न-केंद्रीय-म
राष्ट्रपति द्रौपदी मुर्मु बुधवार को 2024 बैच के भारतीय प्रशासनिक सेवा (आईएएस) अधिकारियों के एक समूह को संबोधित करते हुए


नवदिल्ली, २० मे-मासः (हि.स.)। राष्ट्रपति-द्रौपदीमुर्मू बुधवासरे उक्तवती यत् प्रशासनिक-अधिकारीभिः करुणा तथा तर्कसंगतता इत्येतयोः मध्ये संतुलनं स्थापनीयम्, तथा ते संवेदनशीलाः स्युः किन्तु अत्यधिक-भावुकाः न भवितव्याः।राष्ट्रपति-भवने विभिन्न-केंद्रीय-मन्त्रालयेषु विभागेषु च सहायक-सचिवरूपेण कार्यरताः २०२४-सत्रस्य भारतीय-प्रशासनिक-सेवा-अधिकारीणां समूहः तया सह साक्षात्कारं कृतवान्। अस्मिन् अवसरे तया उक्तं यत् अखिल-भारतीय-सेवाः विशेषतः आईएएस देशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथा विकासस्य नूतने चरणे अपेक्षाः अधिकाः अभवन्।

सा अवदत् यत् युवा-अधिकारीणां बहुविध-क्षेत्रेषु कार्यावसरः भविष्यति तथा कतिपयेषु स्थितिषु तेषां विशेषज्ञ-दलानां नेतृत्वं कर्तव्यं भविष्यति। अतः तेषां शिक्षण-गतिः तथा ज्ञान-परिधिः उभयम् विस्तृतं भवितव्यम्।

राष्ट्रपति-मुर्मू उक्तवती यत् निष्पक्षता तेषां न्यायप्रियतायाः सूचिका भविष्यति, संवेदनशीलता च समावेशितायाः प्रतिबद्धतां दर्शयिष्यति। पारदर्शिता तथा निरन्तर-प्रदर्शनं विश्वसनीयतां वर्धयिष्यतः।

सा पुनः उक्तवती यत् नैतिकता तथा सुशासनं एकस्यैव पणकस्य द्वौ पक्षौ स्तः। अधिकारीभिः न केवलं सत्यतायाः पालनं करणीयम्, अपि तु परिणाम-प्रदर्शनम् अपि आवश्यकम्। निर्णय-विलम्बः जनहितस्य हानिकारकः इति सा स्पष्टं उक्तवती।

अन्ते सा उक्तवती यत् लोकतन्त्रस्य उद्देश्यं जनानां आकांक्षापूर्तिः अस्ति, अतः अधिकारीभिः वंचित-वर्गाः अपि केन्द्रे स्थापनीयाः इति।

Hindusthan Samachar / Divya Ranjan